OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, April 19, 2025

 विष़िञ्ञं वाणिज्यमहानौकाश्रयः 

प्रधानमन्त्रिणा राष्ट्रसमर्पणं मेय् २ दिनाङ्के। 


अनन्तपुरी> केरलस्य स्वप्नाभियोजनां , विष़िञ्ञं प्रदेशस्थे समुद्रे स्थापितं वाणिज्यमहानौकाश्रयं प्रधानमन्त्री नरेन्द्रमोदी मेय्मासस्य द्वितीये दिनाङ्के राष्ट्राय समर्पयिष्यति। डिसम्बरमासे सम्पूर्णतया प्रवर्तनमारब्धस्य नौकाश्रयस्य आधिकारिकम् उद्घाटनमेव प्रधानमन्त्री निर्वक्ष्यति। 

  नौकाश्रयपरिसरे सविशेषं निर्मायमानायां वेदिकायां राष्ट्रसमर्पणकार्यक्रमाः विधास्यन्ते। जूलैमासे परीक्षणचालनं मुख्यमन्त्रिणा पिणरायि विजयेन कृतमासीत्।