OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, April 28, 2025

 प्रतिप्रहराय भारतं सज्जते। 

दिल्यां सुप्रधानमेलनानि ; रक्षामन्त्री संयुक्तसेनाधिकारिणा, प्रधानमन्त्रिणा च सह मिलितवान्। 

अग्निशस्त्रपरिशीलनमपि सम्पद्यते। 

नवदिल्ली> पहल्गामभीकराक्रमणस्य अनन्तरं राष्ट्रराजधान्यां शीघ्रगतिकाः पर्यालोचनाः प्रचाल्यन्ते। भीकराक्रमणस्य नरहत्यायाश्च पृष्ठभूमिकायां पाकिस्थानस्य भागभागित्वं प्रबले जाते शक्ताय प्रतिप्रहराय भारतं सज्जमानं वर्तते। तस्यांशतया राष्ट्ररक्षामन्त्री राजनाथसिंहः ह्यः संयुक्तसेनाधिकारिणा जनरल् अनिल् चौहानेन सह मिलित्वा सीमायां वर्तमानं संघर्षमधिकृत्य चर्चां कृतवान्। सैनिकाभियानमधिकृत्य निर्णायकः निश्चयः कृत इति सूच्यते। 

  अद्य राजनाथसिंहः प्रधानमन्त्रिणं नरेन्द्रमोदिनं  मिलितवान्। पाकिस्थानसेनया निगृहीतस्य सीमारक्षणभटस्य मोचनमधिकृत्य चर्चा जाता। 

  नौसेनया अग्निशस्त्रपरिशीलनानि विधत्तानि। दीर्घदूरमहानौकावेधप्रक्षेपास्त्राणि परिशीलितानि।