OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, April 29, 2025

 पद्मपुरस्काराः समर्पिताः। 


नवदिल्ली>  गणतन्त्रदिवसे प्रख्यापिताः अस्य संवत्सरस्य पद्मपुरस्काराः  दिल्ल्याम् आयोजिते कार्यक्रमे राष्ट्रपतिना  द्रौपदी मुर्मू वर्यया समर्पिताः। आहत्य १३९ पुरस्कारार्हेषु  ७१ प्रतिभाधनाः पुरस्कारवितरणकार्यक्रमस्य प्रथमचरणरूपेण ह्यः आयोजिते  प्रौढगम्भीरे समारोहे  पुरस्कारान् स्वीकृतवन्तः।चत्वारि पद्मविभूषणानि, दश पद्मभूषणानि, ५७ पद्मश्रियः च सोमवासरे वितरीतानि। अवशिष्टाः ६८ पुरस्काराः आगामिमासे वितरिष्यन्ति।  

  स्वर्गीयाणां ओसामु सुसुकी [सुसुकी वाहननिर्माणसंस्था], पङ्कज उधासः [गायकः], सुशील कुमार मोदी [बिहारस्य पूर्वीयः उपमुख्यमन्त्री] नागेश्वर रड्डी [आतुरशुश्रूषाक्षेत्रं]  इत्येतेषां पुरस्काराः अपि वितरीताः।  कैरल्याः साहित्यकुलपतिः एम् टि वासुदेवन् नायर् इत्यस्मै मरणानन्तरबहुमतिरूपेण सम्मानितं पद्मविभूषणपुरस्कारं  तस्य पुत्री चलच्चित्रनिदेशिका च अश्वती वि नायर् स्वीकृतवती। उपराष्ट्रपतिः जगदीप धन्करः, प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः अस्मिन्  कार्यक्रमे भागं स्वीकृतवन्तः।