OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, April 11, 2025

 तहावूर् राणः मुम्बई भीकराक्रमणस्य सूत्रधारेषु प्रमुखः। 

परिपृच्छा अनुवर्तते। 

तहावूर् हुसैन राणः। 

नवदिल्ली> २००८ नवम्बर् २६ तमे दिनाङ्के आपन्नस्य भीकराक्रमणस्य मुख्यसूत्रधारेषु अन्यतमः आसीत् गतदिने भारताय समर्पितः तहावूर् हुसैन राणः। मुम्बई भीकराक्रमणस्य इतरः सूत्रधारः दावूद गिलानि इति डेविड् कोल्मान् हेड्ली इत्यस्य आत्ममित्रं चास्ति राणः। 

  पाकिस्थानतः समुद्रमार्गेण मुम्बय्यां प्राप्तवन्तः दश लष्कर् ई तोय्ब भीकराः ताजमहल् राजमन्दिरं होटेल्, छत्रपति शिवजी रेल् निस्थानं, नरिमान् हौस् इत्येतेषु मुख्यस्थानेषु आक्रमणं कृत्वा १६६ जनान् व्यापादितवन्तः। शतशः क्षताः जाताः। ६० होराः अनुवर्तिते प्रतिरोधे अज्मल् कसबः नामकात् ऋते अवशिष्टाः  नव भीकराः भारतसैनिकानां भुषुण्डिप्रयोगेण निहताः। 

  ह्यः दिल्लीमानीतं तहावुर् राणम् एन् ऐ ए संस्थायाः निदेशकप्रमुखस्य नेतृत्वे १२ अधिकारिणः पिरिपृच्छां कुर्वन्ति।