OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, April 19, 2025

 भूमिं विना ग्रहान्तरे प्राणः!

१२४ प्रकाशवर्षाध्वनि बृहत्ग्रहे प्राणोपपत्तिः।


न्यूयोर्क्> भूमिमतिक्रम्य प्राणस्पन्दनं मार्गमाणस्य मानवस्य प्रयत्ने निर्णायकाधिगमेन शास्त्रज्ञाः। भूमेः १२४ प्रकाशवर्षस्य दूरे 'लियो' इति नक्षत्रसमूहे वर्तमानः 'के २ - १८ बि' इत्यस्मिन् बृहद्ग्रहे प्राणोपपत्तेः दृढा सूचना लब्धा। 

  ब्रिटन-यू एस् गवेषकसंघ एवास्य अधिगमस्य पृष्ठतः। केवलं जैवप्रक्रियया एव सम्भूयमानस्य वायूनां सान्निध्यं तस्य ग्रहस्यान्तरिक्षे अधिगतमति प्राणानुमानाय दिशासूचकमभवत्। नासायाः शक्ततमां दूरदर्शनीं 'जयिंस् वेब्' नामकमपयुज्य आसीदयमधिगमः। 

  २०१७ तमे वर्षे कानडीयायाः शास्त्रज्ञाः चिलिराष्ट्रे बहिराकाशनिलये  स्थापितया दूरदर्शिन्या के २- १८बि इति ग्रहः अधिगतः। भूमेः ८. ६ गुणितं भारपरिमाणमस्ति। उपरितले जलमूढ्यमानं वासयोग्यं मण्डलमप्यस्तीति निगम्यते।