OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, April 29, 2025

 'सम्प्रतिवार्तायाः' संस्कृतवार्ताप्रस्तुतिपरिशीलनं समाप्तम्। गुरुवायूर्> केन्द्रियसंस्कृतविश्वविद्यालयस्य  सहयोगेन सम्प्रतिवार्ता नामिकायाः अन्तर्जालपत्रिकायाः नेतृत्वे विद्यालयीयछात्रेभ्यः वार्ताप्रस्तुतिपरिशीलनं सि एस् यू संस्थायाः गुरुवायूर् परिसरे सम्पन्नम्। 

केरलस्य विविधजनपदेभ्यः विद्यालयेभ्यः चिताः पञ्चाशत् छात्राः दिनद्वयात्मके परिशीलनकार्यक्रमे भागं गृहीतवन्त‌ः। 

 छात्रेषु आत्मविश्वासेन संस्कृतवार्ताः प्रस्तुतीकर्तुं तेषां भाषाशुद्धीकरणाय च इयम्  अभियोजना  प्रयोजकीभविष्यतीति सम्प्रतिवार्तायाः  मुख्यसम्पादकः अय्यम्पुष़ हरिकुमारः प्रोक्तवान्। 

   परिशीलनकार्यक्रमस्य उद्घाटनं आकाशवाणी - दूरदर्शनकेन्द्रस्य  तृशूर् निलयस्य प्रसारणकार्यकर्त्री (Transmission Executive) अञ्जू पि अर्जुनः अकरोत्। परिसरस्य निदेशकः प्रोफ. के के षैन् वर्यः कार्यक्रमे अध्यक्षः अभवत्। कलालये वेदान्तविभागाध्यापिका डो राधिका पि आर् आशंसां कृतवती। 

  सम्प्रतिवार्तायाः Managing editor पदीयः एवर्काला रविकुमारः स्वागतभाषणमकरोत्। संस्कृतप्रचारसभायाः उपाध्यक्षा रमा टि के कृतज्ञतां प्रकाशितवती। अय्यम्पुष़ हरिकुमारः, ऐवर्काला रविकुमारः, रमा टि के, डो माया ए एस् इत्येते परिशीलनस्य नेतृत्वं कृतवन्तः।