OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, April 21, 2025

 ट्रम्पं विरुध्य अमेरिक्कायां महान् प्रतिषेधः। 


न्यूयोर्क्> वाषिङ्टणः, न्यूयोर्क् इत्यादिनगरस्थेषु वीथिषु राष्ट्रपतिनं डोणाल्ड् ट्रम्पं विरुध्य महान् जनप्रतिषेधः प्रचलति। ५०५०१ इति कृतनामधेये अस्मिन् प्रतिषेधे सहस्रशः जनाः भागं कुर्वन्ति। ५० राज्यानि, ५० प्रतिषेधाः, एकं लक्ष्यम् इत्यर्थः कल्प्यते अस्यान्दोलनस्य। 

  कर्माचारसंस्थाभ्यः  सेवकानां विसर्जनं, देशाधिवासिनाम् अपनयनं, व्ययाकुञ्चनस्य प्रक्रमाः इत्यादयः राष्ट्रे मूल्यवर्धनस्य कारणं भविष्यतीत्याशङ्का अस्ति। 

  १७७५ एप्रिल् १९ तमे दिनाङ्के सम्पन्ने 'अमेरिकीयान्दोलनस्य' २५० तमे वार्षिकदिने - शनिवासरे- आसीदयं प्रक्षोभः आरब्धः।