OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, April 1, 2025

 वन्यजीविनां कृते वनविभागस्य 'वाटर् मिषन्' अभियोजना लक्ष्यं प्राप्नोति।

वन्यजन्तूनां जनाधिवासप्रवेशने आकुञ्चनम्। 

कालटि समीपे मलयाट्टूर् वनान्तरे निर्मितायाः कृतकवाप्याः जलं पिबन्तः वनगजाः। 
 

कोतमङ्गलं> वन्यजीविनां कृते वनान्तर्भागे पानजलस्रोतांसि फलवृक्षरोपणं च विधाय केरलस्य वनंविभागस्य अभियोजना फलप्राप्तिमायाति।  भोज्य-पानजलं चान्विष्य वन्यमृगाणां जनाधिवासमण्डलप्रवेशं निरोद्धुं वनान्तर्भागे जलभोज्यानां लभ्यतां दृढीकर्तुमाविष्कृता योजना अस्ति 'Mission Food fodder and Water' नामिका। तीव्रे ग्रीष्मकाले योजना प्रयोजनप्रदा अभवदिति निगम्यते। 

  वन्यजीविनां यातायातानि निरीक्ष्य वनान्तर्भागेषु यत्र तत्र वाप्यः निर्मीय जलसम्भरणमकरोत्। पिहितानि नष्टानि च प्रकृतिदत्तजलस्रोतांसि, वाप्य‌ः इत्यादीनि लघुव्ययेन पुनरुद्धाप्य उपयोगप्रदानि विधत्तानि। गजानारभ्य लघुजीविनः पर्यन्तं सम्प्राप्तुं मार्गाश्च सज्जीकृताः। प्रकृतिदत्तवापीः विना कृतकवाप्यः अपि निर्मिताः। ग्रीष्मकाले जललभ्यतां दृढीकर्तुं जलबन्धाः निर्मिताः। 

  राज्ये सहस्राधिके जलबन्धाः, ३३० वाप्यः च निर्मिताः। पूर्वं वर्तिताः १४३१ जलल्रोतांसि नवीकृत्य पानजलसञ्चयः स्थिरीकृतः। एतेषां साक्षात्कारे कृषि,राजस्व, गोत्रवर्गविभागानां सहयोगः, वनसंरक्षणसमितिः, जनजागरूकसमितिः इत्यादीनां साह्यं च प्रयोजनमभवत्।