OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, April 12, 2025

 पश्चात्तापरहितः तेहावूर राणः। 

मुम्बई आक्रमणे राणस्य भागभाक्त्वं समर्थयितुं भारतस्य सकाशे प्रमाणानि सन्तीति यू एस् नीतिन्यायविभागस्य प्रस्तुतिः। 


नवदिल्ली> अमेरिकातः आनीय दिल्ल्याम् एन् ऐ ए संस्थया निगृहीतः परमभीकरः तेहावूर राणः मुम्बई भीकराक्रमणानन्तरं केवलं पश्चात्तापरहितः आसीदिति यू एस् राष्ट्रस्य नीतिन्यायविभागेन वाचा प्रकाशितम्। यू एस् अधिकृतैः वार्तालेखद्वारा सूचितं यत्  मुम्बई आक्रमणस्य सूत्रधारप्रमुखेण डेविड् कोल्मान् हेड्ली इत्यनेन सह भाषमाणे सन्दर्भे भारतीयाः आक्रमणार्हाः भवन्तीति राणेन उक्तस्य प्रमाणानि सन्तीति  भारतेन सूचितम्। आक्रमणे निहतेभ्यः भीकरेभ्यः पाकिस्थानस्य परमबहुमतिं दास्यति इति तयोः दूरवाणीसम्भाषणं प्रमाणीभूतमस्ति। 

  प्रत्युत, अन्वेषणाधिकारिकर्तृकस्य परिपृच्छनस्य विशदांशाः न  बहिरागताः। मुम्बई भीकराक्रमणे गूढचिन्तनस्य व्याप्तिं पाकिस्थानस्य भागित्वं च प्रमाणीकर्तुं राणात् सूचनाः लप्स्यन्ते इति अन्वेषणसंघस्य प्रतीक्षा।