OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, April 21, 2025

 फ्रान्सिस् मार्पापावर्यः परमधाम्नि विलयं प्राप।


वत्तिकान् सिटी> क्रिस्तीयधर्मे आगोलकत्तोलिकासभायाः परमोन्नतः आत्मीयाचार्यः फ्रान्सिस् मार्पापावर्यः नित्यतां विलयं प्राप। अद्य भारतीयसमयानुसारं मध्याह्नात्पूर्वं ११. १५ आसीत्तस्य वियोगः। ८८ वयस्कः सः कत्तोलिकासभायाः २६६ तमः मार्पापापदीयः अस्ति। 

 क्रिस्तीयधर्मे मानविकतामूल्यानुसारं परिष्करणाय प्रयतितवान्। महिलानां बालकानां चाधिकाराय सदा व्यवहृतवान्। धार्मिकसाहोदर्याय निरन्तरं प्रयत्नं कृतवान् मार्पापावर्यः मानवप्रेमस्य महनीयादर्शरूपेण वर्तमानः आसीत्।