भारत-दक्षिणाफ्रिका टि-२० क्रिकेट परम्परा - प्रथमविजयः भारतस्य।दक्षिणाफ्रिकां प्रति शतकं प्राप्तवतः सञ्जु सांसणस्य आह्लादः।
सञ्जु सांसणस्य शतकप्राप्तिः ; टि-२०मध्ये अनुस्यूततया शतकं प्राप्नुवन् प्रथमभारतीयक्रीडकः।
डर्बन्> केवलं ५० कन्दुकेभ्यः महत्वपूर्णानि दश षट्कानि अभिव्याप्य सञ्जु सांसणेन प्राप्तानां १०७ धावनाङ्कानां लाभेन दक्षिणाफ्रिकां विरुध्य टि-२० परम्परायाः प्रथमे प्रतिद्वन्द्वे भारतस्य उज्वलविजयः।
अङ्कप्राप्तिः - भारतं २० क्षेपणचक्रेषु ८ द्वारकाणां विनष्टेन २०२ धावनाङ्काः। दक्षिणाफ्रिका १७. ५ क्षेपणचक्रेषु १४१ धावनाङ्कैः सर्वे बहिर्नीताः।
शतकं प्राप्तवान् सञ्जु सांसणः इति केरलीयक्रीडकः टि-२०मध्ये अनुस्यूततया शतकं प्राप्नुवन् प्रथमभारतीयक्रीडकः इत्यपूर्वं स्थानमपि प्राप्तवान्। समीपकाले बङ्लादेशं विरुध्य टि-२० परम्परायाः अन्तिमे प्रतिद्वन्द्वे शतकं प्राप्तवानासीत्।