OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 11, 2020

प्रथमटेस्ट् क्रिकेट्क्रीडायां वेस्ट् इन्टीस् दलस्य आधिपत्यम्। 
     सताम्प्टण्> इङ्ग्लण्ट्-वेस्ट् इन्टीस् दलयोः मध्ये प्रचाल्यमानायां प्रथमटेस्ट् क्रिकेट्क्रीडायां वेस्ट् इन्टीस् दलाय ११४ धावनाङ्कानाम् आधिपत्यम्। इङ्ग्लण्ट् दलस्य प्रथमेन्निङ्स् अङ्कान् २०४ धावनाङ्कान् प्रति वेस्ट् इन्टीस् दलं प्रतिक्रीडनावसरे ३१८ धावनाङ्कान् प्रापयत्। वेस्ट् इन्टीस् दलाय क्रेग् ब्रात्वेय्ट्, षैन् डौरिच् च अर्धशतकं प्रापयताम्। तृतीयदिनस्य क्रीडायाः समापनवेलायां द्वितीयेन्निङ्स् मध्ये इङ्ग्लण्ट् दलं क्रीडकनष्टं विना १५ धावनाङ्कान् प्रापयच्च। क्रीडायाः प्रथमदिनं वृष्टिवशात् त्यक्तमासीत्।