केरलमुख्यमन्त्री
अनिश्चितत्वम् अनुवर्तते। 
[वामतः] मुख्यमन्त्रिपदकांक्षिणः रमेश् चेन्नित्तला, वि डी सतीशः, के सि वेणुगोपालः च।
कोच्ची> निर्वाचनपरिणामम् उद्घोष्य सप्त दिनानि अतीतान्यपि मुख्यमन्त्री कः इति विषये अनिश्चितत्वम् अनुवर्तते। कोण्ग्रसदलात् ७८ स्थानाशिनः विजिताः सन्ति। तेषु यू डि एफ् सख्यस्य अध्यक्षः तथा विपक्षनेता च वि डी सतीशः, वरिष्ठनेता तथा भूतपूर्वः विपक्षनेता रमेश् चेन्नित्तला च विधानसभासदस्यौ मुख्यमन्त्रिपदकामिनौ च स्तः। एताभ्यां सह ए ऐ सि सि इत्यस्य राजनैतिककार्यसचिवप्रमुखः वर्तमानीनः संसद्सदस्यः के सी वेणुगोपालश्च मुख्यमन्त्रिस्थानम् अभिलषति, तदर्थं गूढप्रक्रमान् आचरति च। एवं त्रयः 'भैमीकामुकाः' केरलस्य मुख्यमन्त्रिपदनिर्णयं सङ्कीर्णं कुर्वन्ति।
गुरुवासरे देशीय कोण्ग्रस् संघटनस्य [ए ऐ सि सि] निरीक्षकाः केरलमागत्य सर्वान् कोण्ग्रससदस्यान् पृथक् पृथक् सम्मिल्य तेषामभिमतं विलिख्य यू डि एफ् पक्षस्य दलनेतृजनान् इतरान् वरिष्ठनेतॄः च अभिमुखीकृत्य तेषां मनोपस्थितिं च सम्पादितवन्तः। तथापि निर्णयाय क्लेशे जाते विषयः 'हैकामान्ड्' स्तराय समर्पितः। ततः त्रीनपि स्थानमोहिनः दिल्लीमाहूय चर्चा कृता अपि निर्णयः नाभवत्। राहुलगान्धि-मल्लिकार्जुनखार्गेवर्ययोः निर्णयाय समर्पितमिदानीम् एतद्विषयः। दिनद्वयाभ्यन्तरे मुख्यमन्त्रिपदकलहाय परिहारः भवेदिति प्रतीक्षा वर्तते। एतदाभ्यन्तरे पूर्वोक्त'भैमीकामुकानाम्' अनुकूलिभिः केरले सर्वत्र दिल्ल्यां च एतेषां कृते विज्ञप्तिपत्रप्रचाराः सामाजिकमाध्यमद्वारा प्रस्तावाःआरब्धाः। तस्मिन् प्रकरणे देशीयनेतृत्वं अतृप्तिं प्रकटयामास च।