विजयस्य प्रतिज्ञावाचनम् अद्य।
१२० सदस्यानां सहयोगः दृढीकृतः।
चेन्नई> तमिलनाटे इदंप्रथमतया डि एम् के, ए ऐ ए डि एम् के इतरप्रशासनम् अधिकारपदं प्राप्नोति। आराधकैः 'इलय दलपति' [कनिष्ठः सेनानायकः] इति प्रकीर्त्यमानः चलच्चित्रनटः विजय् इत्यनेन रूपीकृतस्य टि वी के नामकस्य राजनैतिकदलस्य नेतृत्वे रविवासरे प्रभाते दशवादने शपथवाचनं करोति। विजयः मुख्यमन्त्री भविष्यति। तेन सह ९ मन्त्रिणः अपि प्रतिज्ञावाचनं करिष्यन्तीति सूच्यते। चेन्नै जवाहर लाल नेह्रु अन्ताराष्ट्रिय क्रीडाङ्कणे अस्ति कार्यक्रमः।