OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, May 15, 2025

 बी आर् गवाय् वर्यः भारतस्य मुख्यन्यायाधिपरूपेण शपथं कृतवान्। 

बी अर् गवाय् वर्यस्य शपथसमारोहः। 

नवदिल्ली> भारतस्य ५२ तम मुख्यन्यायाधिपरूपेण न्यायाधीशः बी आर् गवाय् वर्यः ह्यः राष्ट्रपतेः द्रौपदी मुर्मू वर्यायाः सविधे शपथं कृत्वा कार्यभारं स्वीकृतवान्। सत्यशपथसमारोहानन्तरं मुख्यन्यायालयं सम्प्राप्तवान् सः तत्रत्ययोः महात्मा गान्धी, डा बी आर् अम्बदकरः इत्येतयोः प्रतिमयोः पुष्पार्चनां कृतवान्। 

   बुद्धधर्मानुयायी प्रथमः भारतमुख्यन्यायाधिपो भवति न्याय.  भूषण रामकृष्ण गवाय् वर्यः।नवम्बर् २३ पर्यन्तं तस्य सेवाकालः भविष्यति।

 लष्करनेतारमभिव्याप्य त्रयः भीकराः निहताः। 

श्रीनगरं> जम्मु काश्मीरस्य षोपियाने सुरक्षासेनया सह प्रतिद्वन्द्वे लष्कर् ई तोय्बा संघटनस्य नेता इतरौ द्वौ भीकरौ च निहताः। 

   भीकराः प्रदेशे निलीयमाना‌ः इति सूचनानुसारं सेनया कृतस्यान्वेषणस्य अंशतया आसीत् प्रतिद्वन्द्वः। लष्करस्य कमान्डरः षाहिद् कुट्टे , अदनान षाफी, अज्ञातनामा इतरः च निहताः।

 मण्सूण् कालवर्षः आन्डमानं सम्प्राप्तम्। 

केरले २७ तमे दिनाङ्के। 

अनन्तपुरी> दक्षिण अन्तमान् समुद्रः, उत्तर अन्तमान् समुद्रः, दक्षिणवंगस्य अन्तरालः इत्यादिषु स्थानेषु कालवर्षः सम्प्राप्त इति केन्द्र पर्यावरणविभागेन निगदितम्। केरले  दक्षिणपश्चिमकालवर्षः मेमासस्य २७ दिनाङ्कं यावत् सम्पत्स्यते।

Wednesday, May 14, 2025

 भीकरप्रवर्तनस्य अनुवर्तनं पाकिस्थानस्य सर्वनाशाय भविष्यतीति नरेन्द्रमोदी। 

ओदंपुरस्थं व्योमनिलयं प्राप्तवान् नरेन्द्रमोदी सैनिकैः सह सम्भाषणे। 

नवदिल्ली> यदि पाकिस्थानः भीकरप्रवर्तनम् अनुवर्तिष्यते तर्हि तत् तद्राष्ट्रस्य सर्वनाशाय भविष्यतीति भारतप्रधानमन्त्री नरेन्द्रमोदी असूचयत्। ओपरेशन् सिन्दूरम् इत्यस्यानन्तरं आदंपुरे व्योमसैनिकनिलयं सम्प्राप्य सैनिकान् अभिसम्बोधयन् भाषमाणः आसीत् नरेन्द्रमोदी। 

  पाकिस्थानेन विशीर्णमिति तैरभिमानितेषु भारतीयव्योमनिलयेषु अन्यतमं भवति पञ्चाबस्थं  आदंपुरम्। सैनिकनिलयः सर्वथा सुरक्षितः इति प्रमाणीकर्तुमपि आसीत् प्रधानमन्त्रिणः इदं प्रातःकालसन्दर्शनम्। 

  आदंपुरे प्राप्तवान् मोदीवर्यः 'एस् ४००' इति व्योमप्रतिरोधसंविधानम् अभिवाद्य सैनिकैः सह भाषणं कृत्वा तेषां पराक्रमशीलं, स्थिरोत्साहं च प्रकीर्तितवान्।

Tuesday, May 13, 2025

 विराट कोह्ली क्रिकट् निकषस्पर्धायाः निवृत्तवान्। 

एकदिने अनुवर्तिष्यते। 


नवदिल्ली> क्रिकट् आराधकानां वीरपुरुषः, भारतस्य क्रिकट् नायकेषु अनुत्तमः  विराट कोह्ली निकषस्पर्धायाः विरम्यते इति स्वयमुद्घोषितवान्। पूर्वमेव टि - २० अतः निवृत्तः सः परं एकदिनस्पर्धासु क्रीडिष्यति। 

  पराक्रमशाली, उत्साहवान्, जनप्रियः - त्रयमपि कोह्लेः उत्तमरीत्या अनुयुक्तं विशेषणं भवति। अधिकतमेषु निकषस्पर्धासु भारतदलं विजयपदमानीतवान् नायकः इति ख्यातिः कोह्लेः स्वकीयः अस्ति। ६० प्रतिद्वन्द्वेषु ४०विजयाः। सप्त युगलशतकस्य स्वामीअस्ति।

Monday, May 12, 2025

 UPI सेवा स्थगिता। उपयोक्तृजनानाम् अतिसम्मर्दः कारणम्।

   नवदिली> भारते यू पि ऐ नाम धनपरिवर्तनादिकी स्थगिता इति प्रतिवेद्यते। पे टि एम्, फोण् पे, गूगिल् पे इत्यादयः अनुप्रयोगाः अद्य सोमवासरे सायं कालादारभ्य स्थगिताः। नववादने सेवा पुनस्थापिता। विगते मार्चमासे लब्धगणनानुसारेण 1830 कोटि विनिमयाः कृताः सन्ति। फेब्रुवरिमासे विनिमयाः 1611 कोटि इत्यासीत्।

 "भीकरवादरूढमूला भूमिः सुरक्षिता नास्ति, भीकरवादिनः अनुगम्य आखेटनं करिष्यामहे; " – रक्षामन्त्री राजनाथसिंहः।

  "सिन्दूरं नष्टवतीनां कुटुम्बानां कृते सशस्त्रसेनया ओपरेषन् सिन्दूरम् इति प्रक्रमेण न्यायः प्रदत्तः" इति भारतस्य रक्षामन्त्री राजनाथसिंहः उक्तवान्। ब्रह्मोस्-शस्त्रप्रयोगः  शत्रूणां कृते स्पष्टतया  दत्तसन्देशः भवति इत्यपि सः निरूपितवान्। सम्पूर्णं राष्ट्रं भारतीयसैन्याय कृतज्ञतां प्रकाशयति।

"ओपरेषन् सिन्दूरम्" केवलं सैन्यकर्म न भवति, अपितु भारतस्य राजनैतिक -सामाजिक -संकल्पशक्तेः प्रतीकम् एव। रावलपिण्डिस्थं पाकिस्थानस्य सैनिककेंद्रं लक्ष्यीकृत्य आक्रमणं कृतम्।

"भीकरवादेन पीडितं भूमिप्रदेशे ते सुरक्षिताः इति चिन्तयन्ति चेत्, तत् न तथ्यम्। तथा नास्ति, यत्र यत्र ते भीकरवादिनः निवसन्ति, तत्र तत्र गत्वा तान् आखेटनं करिष्यामहे" इति राजनाथसिंहः उक्तवान्।

Sunday, May 11, 2025

 पाकिस्थानस्य युद्धविरामलङ्घनम्; ड्रोणस्य  आक्रमणेन एकस्य सैनिकस्य वीरमृत्युः।

  युद्धविराम-सम्मतिः प्रवृत्ता। किन्तु कतिपयहोरायाः अनन्तरं  पाकिस्थानदेशेन तस्य उल्लङ्घनं कृतम्। पाकिस्थानेन कृतेन ड्रोणाक्रमणेन एकस्य भारतीयसैनिकस्य वीरमृत्युः अभवत्। एषः सैनिकः उधमपुर-नगरस्य सैन्यकेंद्रे रक्षणकर्तृरूपेण नियुक्तः आसीत्। भारतदेशः पाकिस्थानस्य वञ्चनक्रियाम् अपालपत्। आवश्यके सति प्रत्याक्रमणं करणीयम् इति सैन्यबलान् प्रति निर्देशः दत्तः।


    जम्मू-काश्मीरे अखनूर्, रजौरी, आर्.एस्. पुरा इत्यादिदेशेषु गभीरं षेल्-आक्रमणं जातम्। नग्रोट्थ-प्रदेशस्थे सैन्यकेन्द्रे अपि आतङ्कवादिनां आक्रमणम् अभवत्। सीमाप्रदेशेषु मुख्यकार्यालयाधिकारिभिः सह भारतस्य केन्द्रीय-गृहमन्त्रिणा विषयेऽस्मिन् चर्चा कृता। पञ्जाबराज्ये अमृत्सर-नगरे 'रक्तवर्ण-सूचना’ अपि घोषिता।

Saturday, May 10, 2025

 एस् एस् एल् सि [केरले दशमीकक्ष्यायाः अन्तिमपरीक्षा] परीक्षापरिणामः - ९९. ५% विजयः। 

अनन्तपुरी> अतीतायाम् एस् एस् एल् सि परीक्षायां ९९. ५% विजयः। परीक्षां लिखितवत्सु ४,२६,६९७ छात्रेषु ४,२४५८३ छात्राः उपरिपठनाय अर्हतां लब्धवन्तः। शिक्षामन्त्री वि शिवन् कुट्टिः फलं प्रख्यापितवान्। 

  ६१,४४९ छात्राः सर्वेषु विषयेषु A+ लब्धवन्तः। गतवर्षापेक्षया दशसहस्राणाम् आकुञ्चनमभवत्। २३३१ विद्यालयाः १००% विजयं प्रापुः।

 दिनद्वयेन ६२ नगराणि लक्ष्यीकृत्य पाकिस्थानस्य ड्रोण् आक्रमणम्। 

भारतेन सर्वं विफलीकृतम्। 

जम्मु> गते दिनद्वये भारतस्य सीमाराज्यानां ६२ नगराणि लक्ष्यीकृत्य पाकिस्थानः अग्निशस्त्रयुक्तानि ड्रोण् यन्त्राणि उपयुज्य आक्रमणमकरोत्। किन्तु भारतस्य व्योमप्रतिरोधसंविधानमुपयुज्य सर्वं विफलीकृतम्। 

  गुरुवासरस्य रात्रौ ३६ स्थानानि, शुक्रवासरे २६ स्थानानि लक्ष्यीकृत्य आसीदाक्रमणम्। गुजरात्, जम्मु काश्मीरं, पञ्चाबः, राजस्थानम् इत्येतेषां सैनिककेन्द्राणि आसीत् पाकिस्थानस्य लक्ष्यम्। तुर्किनिर्मितानि ४०० ड्रोणानि एव उपयुक्तानि। प्रतिरोधस्य अंशतया पाकिस्थानस्य चत्वारि व्योमप्रतिरोधनिलयान् प्रति भारतेन प्रत्याक्रमणं कृतम्।

 पाकिस्थानस्य प्रकोपनमनुवर्तते। 

जनवासक्षेत्राणि लक्ष्यीकृत्य अग्निशस्त्राक्रमणं - द्वौ बालकौ मृतौ, त्रयः क्षताः। 

भुषुण्डिप्रयोगेण एकः सैनिकः वीरमृत्युं प्राप। 

श्रीनगरं> काश्मीरस्य जनाधिवासकेन्द्राणि लक्ष्यीकृत्य अपि पाकिस्थानस्य आक्रमणम्। काश्मीरे पूञ्च् क्षेत्रे कस्यचन विद्यालयस्य पृष्ठतः विद्यमानं गृहं प्रति पाकिस्थानस्य 'षेल्' पतित्वा द्वौ बालकौ हताविति विदेशकार्य सचिवेन विक्रम मिस्रिना स्थिरीकृतम्। विद्यालयः पिहितः इत्यतः महान् दुरन्तः अपनीतः। अन्यत्र चलतः कार् यानस्य उपरि पाकिस्थानस्य 'षेल्' पतित्वा एकपरिवारीयाः त्रयः आहताः। 

  काश्मीरस्थे उरि मण्डले पाकिस्थानेन कृते भुषुण्डिप्रयोगे एकः सैनिकः वीरमृत्युं प्राप। आन्ध्रप्रदेशीयः एम् मुरली नायिक् [२७] एव मृतः। 

 उरी, पूञ्च्, राजौरी इत्यादिभ्यः सीमास्थानेभ्यः सेनायाः निर्देशमनुसृत्य  जनाः सुरक्षितस्थानानि प्रति पलायन्ते।

२०२५ संवत्सरस्य भारत-मुद्रा नाम पुरस्कारेण  दामोदरन् नम्बिटिः सम्मानितः।

   तृश्शिवपेरूर्> संस्कृतस्य प्रचाराय भारतमखिलं भ्रमन् अनवरतं प्रयत्नं कृत्वा स्वं मार्गं स्फुटीकृतवान् आसीत् अशोकन् पुरनाट्टुकर। प्रभाषकः, पत्रकारः, अध्यापकश्च आसीत् अयं महोदयः। अस्य स्मृत्यर्थं संस्थापितः भारत-मुद्रा नाम पुरस्कारं संवत्सरेऽस्मिन् दामोदरन् नम्बिटिः प्राप्तवान्। अयं महोदयः सुज्ञातः चित्रकारः, ग्रन्थकारश्च भवति।


 11,111 रूप्यकाणां धनराशिः, प्रशस्तिपत्रम्, फलकं च पुरस्कारेऽस्मिन् अन्तर्भवति। गुरुवायूर्-देवस्वं-प्राधिकरणस्य अध्यक्षेण डा. वी.के. विजयेन पुरस्कारोऽयं समर्पितः। पी.के. राजेन अध्यक्षतां वहति स्म।


डॉ॰ सी.टी. फ्रान्सीसेन अशोकन् पुरनाट्टुकर महाभागस्य सुस्मरणं कृतम्। के.वी. गणेशेन पुरस्कारेण मानितस्य दामोदरन् नम्बिटिमहोदयस्य विशिष्टपरिचायकं कृतवान्। एन्. मोहनस्य 'इन्नलत्ते मष़' (मलयाळ भाषा) इति ग्रन्थम् अशेकन् महोदयेन 'ह्यस्तनी वृष्टिः' इत्याख्यया अनूदितम् आसीत्। ग्रन्थोऽयं  डॉ॰ टी. श्रीकुमारः, के रामदासाय समर्प्य प्रकाशितवान्। श्रीकुमारः केरळस्य कविकोकिलस्य प्रथितयशस्कस्य वैलोप्पिल्लि श्रीधरमेनोनस्य पुत्रः भवति। रामदासः अशोकन् पुरनाट्टुकर महोदयस्य पुत्रः च।

 एन्. राजगोपालः, डॉ॰ एस्.एन्. महेष् बाबुः, षाजुः पुतूर, श्रीलेखा, प्रभा वैक्कत्त्, विनायकः च कार्यक्रमे भाषणानि अकुर्वन्।

Friday, May 9, 2025

 विश्वसंस्कृतप्रतिष्ठानस्य ४५तमं राज्यस्तरीयसम्मेलनं श्व आरभ्य कोष़िक्कोट् जनपदे। 

कोष़िक्कोट्> संस्कृतभारत्याः केरलविभागस्य विश्वसंस्कृतप्रतिष्ठानस्य ४५तमं राज्यस्तरीयसम्मेलनं शनिवासरे रविवासरे च कोष़िक्कोट् जनपदे विधास्यति। सम्मेलनस्य उद्घाटनं शनिवासरे अपराह्ने केरलस्य राज्यपालः राजेन्द्र विश्वनाथ आर्लेकरः तोण्डयाटस्थे चिन्मयाञ्जली सभागारे करिष्यति। 

  प्रतिनिधिसम्मेलनं ११तमे दिनाङ्के शिक्षकसदने सम्पत्स्यति। संस्कृतसम्भाषण शिबिरं, वीथीनाटकं, विलम्बरपथसञ्चलनं, संस्कृतग्रन्थानां प्रदर्शनं, संघात्मकं भगवद्गीतापठनं, मनोरञ्जनकार्यक्रमाश्च  सम्मेलनस्य अंशतया भविष्यन्ति।



 सण्णि जोसफः केरल प्रदेश् कोण्ग्रस् अध्यक्षः। 

सण्णि जोसफः।

नवदिल्ली> के पि सि सि इति केरलराज्यस्य कोण्ग्रस् दलस्य अध्यक्षरूपेण विधानसभासदस्यः सण्णि जोसफः एव इति दलस्य  उन्नताधिकारसमित्या [हैकमान्ट्] विज्ञापितम्। विवादानाम् अनिश्चित्वानामन्ते आसीत् वर्तमानीनाध्यक्षं के सुधाकरमपनीय सण्णि जोसफस्य नियुक्तिः। 

  यू डि एफ् संविधानस्य अध्यक्षरूपेण अडूर् प्रकाशः नियुक्तः। पि सि विष्णुनाथः , ए पि अनिल्कुमारः, षाफि परम्पिल् इत्येते के पि सि सि इत्यस्य प्रवर्तकाध्यक्षरूपेण च नियुक्ताः।

 एस् एस् एल् सि परीक्षाफलम् अद्य। 

कोच्ची> केरले दशमकक्ष्याछात्राणां अन्तिमसामान्यपरीक्षा एस् एस् एल् सि इत्यस्य परिणामः अद्य ज्ञातुं शक्यते।  सायं त्रिवादने शिक्षामन्त्रिणा वि शिवन्कुट्टिना फलं विज्ञापयिष्यते। 

  सार्धचतुर्लक्षं छात्राः तेषां फलं जिज्ञास्यमानाः सन्ति। टि एछ् एस् एल्  सी, ए एछ् एस् एल्  सी इत्यनयोःपरिणामव्ज्ञप्तिरपि अनेन सह भविष्यति।

 कर्दिनाल् रोबर्ट् प्रोवो नूतनः मार्पापावर्यः। 

नूतनपापावर्यः विश्वासिजनान् अभिसम्बोधयति 

अमेरिकातः प्रथमः पापा; 'लियो १४तमः' इति नाम स्वीकृतम्। 

वत्तिक्कान सिटी>  आगोल कत्तोलिक्कासभायाः परमोन्नत आत्मीयाचार्यः - मार्पापा - चितः। कर्दिनाल् रोबर्ट फ्रान्सिस् प्रोवो कोण्क्लेव् इति गुप्तपरिषदः द्वितीयदिने २६७ तमः मार्पापारूपेण चितः। लियो चतुर्दशतमः इति सः परं आख्यायते। 

  गुरुवासरस्य रात्रौ ९. ४० वादने सिस्टैन् चाप्पल् देवालयस्य धूमनालिकया श्वेतधूमः बहिरागच्छत्। निमेषाणामनन्तरं कर्दिनाल् प्रोटोडीकन् पदीयः डोमनिक् माम्बोर्टी सेन्पीटेर्स् देवालयस्य वेदिकां सम्पाप्य विज्ञापितवान् - "अस्मभ्यं पापा लब्धः" । तदैव लियो १४ तमः वेदिकां सम्प्राप्तवान्। "संवादेन मेलनेन सेतुः निर्मातव्यः। सदापि शान्तिं पालयाम" इति नूतनपापावर्येण प्रथमः सन्देशः समर्पितः।

Thursday, May 8, 2025

 भारतबंगलादेशयोः सीमनि चीनस्य उदग्रछायाग्राही।

  गुवाहती>भारत-बंगलादेशयोः सीमनि चीनस्य उदग्रछायाग्राही परित्यक्तवत् दृश्यते। श्रीभूमि नगरस्य समीपे चारबसार प्रदे शतः उदग्रछायाग्राही लब्धा। चीनेन निर्मिता भवति इयम्। आरक्षकैः अन्वेषण- प्रक्रमाः समारब्धाः।

 रोहित शर्मा निकषक्रिकट् इत्यस्मात् निवृत्तः। 


मुम्बई> भारतस्य क्रिकट्क्रीडादलस्य नायकः रोहित शर्मा निकषस्पर्धायाः निवृत्तवान्। टि - २० प्रकरणात् पूर्वमेव निवृत्तः सः एकदिनप्रकरणे अनुवर्तिष्यते। 

  निकषस्पर्धापरम्परासु रोहितशर्मणः निन्द्यमानानुष्ठानेभ्यः नायकपदम् अङ्गत्वमपि विनष्टं भवेदिति अभ्यूहे  जाते अस्ति तस्य निवृत्तिविज्ञप्तिः।