OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 9, 2025

 कर्दिनाल् रोबर्ट् प्रोवो नूतनः मार्पापावर्यः। 

नूतनपापावर्यः विश्वासिजनान् अभिसम्बोधयति 

अमेरिकातः प्रथमः पापा; 'लियो १४तमः' इति नाम स्वीकृतम्। 

वत्तिक्कान सिटी>  आगोल कत्तोलिक्कासभायाः परमोन्नत आत्मीयाचार्यः - मार्पापा - चितः। कर्दिनाल् रोबर्ट फ्रान्सिस् प्रोवो कोण्क्लेव् इति गुप्तपरिषदः द्वितीयदिने २६७ तमः मार्पापारूपेण चितः। लियो चतुर्दशतमः इति सः परं आख्यायते। 

  गुरुवासरस्य रात्रौ ९. ४० वादने सिस्टैन् चाप्पल् देवालयस्य धूमनालिकया श्वेतधूमः बहिरागच्छत्। निमेषाणामनन्तरं कर्दिनाल् प्रोटोडीकन् पदीयः डोमनिक् माम्बोर्टी सेन्पीटेर्स् देवालयस्य वेदिकां सम्पाप्य विज्ञापितवान् - "अस्मभ्यं पापा लब्धः" । तदैव लियो १४ तमः वेदिकां सम्प्राप्तवान्। "संवादेन मेलनेन सेतुः निर्मातव्यः। सदापि शान्तिं पालयाम" इति नूतनपापावर्येण प्रथमः सन्देशः समर्पितः।