सण्णि जोसफः केरल प्रदेश् कोण्ग्रस् अध्यक्षः।
![]() |
सण्णि जोसफः। |
नवदिल्ली> के पि सि सि इति केरलराज्यस्य कोण्ग्रस् दलस्य अध्यक्षरूपेण विधानसभासदस्यः सण्णि जोसफः एव इति दलस्य उन्नताधिकारसमित्या [हैकमान्ट्] विज्ञापितम्। विवादानाम् अनिश्चित्वानामन्ते आसीत् वर्तमानीनाध्यक्षं के सुधाकरमपनीय सण्णि जोसफस्य नियुक्तिः।
यू डि एफ् संविधानस्य अध्यक्षरूपेण अडूर् प्रकाशः नियुक्तः। पि सि विष्णुनाथः , ए पि अनिल्कुमारः, षाफि परम्पिल् इत्येते के पि सि सि इत्यस्य प्रवर्तकाध्यक्षरूपेण च नियुक्ताः।