OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 10, 2025

 दिनद्वयेन ६२ नगराणि लक्ष्यीकृत्य पाकिस्थानस्य ड्रोण् आक्रमणम्। 

भारतेन सर्वं विफलीकृतम्। 

जम्मु> गते दिनद्वये भारतस्य सीमाराज्यानां ६२ नगराणि लक्ष्यीकृत्य पाकिस्थानः अग्निशस्त्रयुक्तानि ड्रोण् यन्त्राणि उपयुज्य आक्रमणमकरोत्। किन्तु भारतस्य व्योमप्रतिरोधसंविधानमुपयुज्य सर्वं विफलीकृतम्। 

  गुरुवासरस्य रात्रौ ३६ स्थानानि, शुक्रवासरे २६ स्थानानि लक्ष्यीकृत्य आसीदाक्रमणम्। गुजरात्, जम्मु काश्मीरं, पञ्चाबः, राजस्थानम् इत्येतेषां सैनिककेन्द्राणि आसीत् पाकिस्थानस्य लक्ष्यम्। तुर्किनिर्मितानि ४०० ड्रोणानि एव उपयुक्तानि। प्रतिरोधस्य अंशतया पाकिस्थानस्य चत्वारि व्योमप्रतिरोधनिलयान् प्रति भारतेन प्रत्याक्रमणं कृतम्।