"भीकरवादरूढमूला भूमिः सुरक्षिता नास्ति, भीकरवादिनः अनुगम्य आखेटनं करिष्यामहे; " – रक्षामन्त्री राजनाथसिंहः।
"सिन्दूरं नष्टवतीनां कुटुम्बानां कृते सशस्त्रसेनया ओपरेषन् सिन्दूरम् इति प्रक्रमेण न्यायः प्रदत्तः" इति भारतस्य रक्षामन्त्री राजनाथसिंहः उक्तवान्। ब्रह्मोस्-शस्त्रप्रयोगः शत्रूणां कृते स्पष्टतया दत्तसन्देशः भवति इत्यपि सः निरूपितवान्। सम्पूर्णं राष्ट्रं भारतीयसैन्याय कृतज्ञतां प्रकाशयति।
"ओपरेषन् सिन्दूरम्" केवलं सैन्यकर्म न भवति, अपितु भारतस्य राजनैतिक -सामाजिक -संकल्पशक्तेः प्रतीकम् एव। रावलपिण्डिस्थं पाकिस्थानस्य सैनिककेंद्रं लक्ष्यीकृत्य आक्रमणं कृतम्।
"भीकरवादेन पीडितं भूमिप्रदेशे ते सुरक्षिताः इति चिन्तयन्ति चेत्, तत् न तथ्यम्। तथा नास्ति, यत्र यत्र ते भीकरवादिनः निवसन्ति, तत्र तत्र गत्वा तान् आखेटनं करिष्यामहे" इति राजनाथसिंहः उक्तवान्।