रोहित शर्मा निकषक्रिकट् इत्यस्मात् निवृत्तः।
मुम्बई> भारतस्य क्रिकट्क्रीडादलस्य नायकः रोहित शर्मा निकषस्पर्धायाः निवृत्तवान्। टि - २० प्रकरणात् पूर्वमेव निवृत्तः सः एकदिनप्रकरणे अनुवर्तिष्यते।
निकषस्पर्धापरम्परासु रोहितशर्मणः निन्द्यमानानुष्ठानेभ्यः नायकपदम् अङ्गत्वमपि विनष्टं भवेदिति अभ्यूहे जाते अस्ति तस्य निवृत्तिविज्ञप्तिः।