२०२५ संवत्सरस्य भारत-मुद्रा नाम पुरस्कारेण दामोदरन् नम्बिटिः सम्मानितः।
तृश्शिवपेरूर्> संस्कृतस्य प्रचाराय भारतमखिलं भ्रमन् अनवरतं प्रयत्नं कृत्वा स्वं मार्गं स्फुटीकृतवान् आसीत् अशोकन् पुरनाट्टुकर। प्रभाषकः, पत्रकारः, अध्यापकश्च आसीत् अयं महोदयः। अस्य स्मृत्यर्थं संस्थापितः भारत-मुद्रा नाम पुरस्कारं संवत्सरेऽस्मिन् दामोदरन् नम्बिटिः प्राप्तवान्। अयं महोदयः सुज्ञातः चित्रकारः, ग्रन्थकारश्च भवति।
11,111 रूप्यकाणां धनराशिः, प्रशस्तिपत्रम्, फलकं च पुरस्कारेऽस्मिन् अन्तर्भवति। गुरुवायूर्-देवस्वं-प्राधिकरणस्य अध्यक्षेण डा. वी.के. विजयेन पुरस्कारोऽयं समर्पितः। पी.के. राजेन अध्यक्षतां वहति स्म।
डॉ॰ सी.टी. फ्रान्सीसेन अशोकन् पुरनाट्टुकर महाभागस्य सुस्मरणं कृतम्। के.वी. गणेशेन पुरस्कारेण मानितस्य दामोदरन् नम्बिटिमहोदयस्य विशिष्टपरिचायकं कृतवान्। एन्. मोहनस्य 'इन्नलत्ते मष़' (मलयाळ भाषा) इति ग्रन्थम् अशेकन् महोदयेन 'ह्यस्तनी वृष्टिः' इत्याख्यया अनूदितम् आसीत्। ग्रन्थोऽयं डॉ॰ टी. श्रीकुमारः, के रामदासाय समर्प्य प्रकाशितवान्। श्रीकुमारः केरळस्य कविकोकिलस्य प्रथितयशस्कस्य वैलोप्पिल्लि श्रीधरमेनोनस्य पुत्रः भवति। रामदासः अशोकन् पुरनाट्टुकर महोदयस्य पुत्रः च।
एन्. राजगोपालः, डॉ॰ एस्.एन्. महेष् बाबुः, षाजुः पुतूर, श्रीलेखा, प्रभा वैक्कत्त्, विनायकः च कार्यक्रमे भाषणानि अकुर्वन्।