UPI सेवा स्थगिता। उपयोक्तृजननाम् अतिसम्मर्दः कारणम्।
नवदिली> भारते UPI सेवा स्थगिता इति प्रतिवेद्यते। पे टि एम्, फोण् पे, गूगिल् पे इत्यादयः अनुप्रयोगाः अद्य सोमवासरे सायं कालादारभ्य स्थगिताः। नववादने सेवा पुनस्थापिता। विगते मार्चमासे लब्धां गणनानुसारं 1830 कोटि विनिमयाः कृताः सन्ति। फेब्रुवरिमासे विनिमयाः 1611 कोटि इत्यासीत्।