OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 15, 2025

 बी आर् गवाय् वर्यः भारतस्य मुख्यन्यायाधिपरूपेण शपथं कृतवान्। 

बी अर् गवाय् वर्यस्य शपथसमारोहः। 

नवदिल्ली> भारतस्य ५२ तम मुख्यन्यायाधिपरूपेण न्यायाधीशः बी आर् गवाय् वर्यः ह्यः राष्ट्रपतेः द्रौपदी मुर्मू वर्यायाः सविधे शपथं कृत्वा कार्यभारं स्वीकृतवान्। सत्यशपथसमारोहानन्तरं मुख्यन्यायालयं सम्प्राप्तवान् सः तत्रत्ययोः महात्मा गान्धी, डा बी आर् अम्बदकरः इत्येतयोः प्रतिमयोः पुष्पार्चनां कृतवान्। 

   बुद्धधर्मानुयायी प्रथमः भारतमुख्यन्यायाधिपो भवति न्याय.  भूषण रामकृष्ण गवाय् वर्यः।नवम्बर् २३ पर्यन्तं तस्य सेवाकालः भविष्यति।