विराट कोह्ली क्रिकट् निकषस्पर्धायाः निवृत्तवान्।
एकदिने अनुवर्तिष्यते।
नवदिल्ली> क्रिकट् आराधकानां वीरपुरुषः, भारतस्य क्रिकट् नायकेषु अनुत्तमः विराट कोह्ली निकषस्पर्धायाः विरम्यते इति स्वयमुद्घोषितवान्। पूर्वमेव टि - २० अतः निवृत्तः सः परं एकदिनस्पर्धासु क्रीडिष्यति।
पराक्रमशाली, उत्साहवान्, जनप्रियः - त्रयमपि कोह्लेः उत्तमरीत्या अनुयुक्तं विशेषणं भवति। अधिकतमेषु निकषस्पर्धासु भारतदलं विजयपदमानीतवान् नायकः इति ख्यातिः कोह्लेः स्वकीयः अस्ति। ६० प्रतिद्वन्द्वेषु ४०विजयाः। सप्त युगलशतकस्य स्वामीअस्ति।