OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 10, 2025

 पाकिस्थानस्य प्रकोपनमनुवर्तते। 

जनवासक्षेत्राणि लक्ष्यीकृत्य अग्निशस्त्राक्रमणं - द्वौ बालकौ मृतौ, त्रयः क्षताः। 

भुषुण्डिप्रयोगेण एकः सैनिकः वीरमृत्युं प्राप। 

श्रीनगरं> काश्मीरस्य जनाधिवासकेन्द्राणि लक्ष्यीकृत्य अपि पाकिस्थानस्य आक्रमणम्। काश्मीरे पूञ्च् क्षेत्रे कस्यचन विद्यालयस्य पृष्ठतः विद्यमानं गृहं प्रति पाकिस्थानस्य 'षेल्' पतित्वा द्वौ बालकौ हताविति विदेशकार्य सचिवेन विक्रम मिस्रिना स्थिरीकृतम्। विद्यालयः पिहितः इत्यतः महान् दुरन्तः अपनीतः। अन्यत्र चलतः कार् यानस्य उपरि पाकिस्थानस्य 'षेल्' पतित्वा एकपरिवारीयाः त्रयः आहताः। 

  काश्मीरस्थे उरि मण्डले पाकिस्थानेन कृते भुषुण्डिप्रयोगे एकः सैनिकः वीरमृत्युं प्राप। आन्ध्रप्रदेशीयः एम् मुरली नायिक् [२७] एव मृतः। 

 उरी, पूञ्च्, राजौरी इत्यादिभ्यः सीमास्थानेभ्यः सेनायाः निर्देशमनुसृत्य  जनाः सुरक्षितस्थानानि प्रति पलायन्ते।