OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, May 11, 2025

 पाकिस्तानस्य युद्धविरामलङ्घनम्; ड्रोणस्य  आक्रमणेन एकस्य सैनिकस्य वीरमृत्युः।

  युद्धविराम-सम्मतिः प्रवृत्ता। किन्तु कतिपयहोरायाः अनन्तरं  पाकिस्तानदेशेन तस्य उल्लङ्घनं कृतम्। पाकिस्थानेन कृतेन ड्रोणाक्रमणेन एकस्य भारतीयसैनिकस्य वीरमृत्युः अभवत्। एषः सैनिकः उधमपुर-नगरस्य सैन्यकेंद्रे रक्षणकर्तृरूपेण नियुक्तः आसीत्। भारतदेशः पाकिस्तानस्य वञ्चनक्रियाम् अपलपत्। आवश्यके सति प्रत्याक्रमणं करणीयम् इति सैन्यबलान् प्रति निर्देशः दत्तः।


    जम्मू-काश्मीरे अखनूर्, रजौरी, आर्.एस्. पुरा इत्यादिदेशेषु गभीरं षेल्-आक्रमणं जातम्। नग्रोट्थ-प्रदेशस्थे सैन्यकेन्द्रे अपि आतङ्कवादिनां आक्रमणम् अभवत्। सीमाप्रदेशेषु मुख्यकार्यालयाधिकारिभिः सह भारतस्य केन्द्रीय-गृहमन्त्रिणा विषयेऽस्मिन् चर्चा कृता। पञ्जाबराज्ये अमृत्सर-नगरे ‘ रक्तवर्ण-सूचना’ अपि घोषिता।