लष्करनेतारमभिव्याप्य त्रयः भीकराः निहताः।
श्रीनगरं> जम्मु काश्मीरस्य षोपियाने सुरक्षासेनया सह प्रतिद्वन्द्वे लष्कर् ई तोय्बा संघटनस्य नेता इतरौ द्वौ भीकरौ च निहताः।
भीकराः प्रदेशे निलीयमानाः इति सूचनानुसारं सेनया कृतस्यान्वेषणस्य अंशतया आसीत् प्रतिद्वन्द्वः। लष्करस्य कमान्डरः षाहिद् कुट्टे , अदनान षाफी, अज्ञातनामा इतरः च निहताः।