एस् एस् एल् सि [केरले दशमीकक्ष्यायाः अन्तिमपरीक्षा] परीक्षापरिणामः - ९९. ५% विजयः।
अनन्तपुरी> अतीतायाम् एस् एस् एल् सि परीक्षायां ९९. ५% विजयः। परीक्षां लिखितवत्सु ४,२६,६९७ छात्रेषु ४,२४५८३ छात्राः उपरिपठनाय अर्हतां लब्धवन्तः। शिक्षामन्त्री वि शिवन् कुट्टिः फलं प्रख्यापितवान्।
६१,४४९ छात्राः सर्वेषु विषयेषु A+ लब्धवन्तः। गतवर्षादपेक्ष्य दशसहस्राणाम् आकुञ्चनमभवत्। २३३१ विद्यालयाः १००% विजयं प्रापुः।