OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 9, 2025

 विश्वसंस्कृतप्रतिष्ठानस्य ४५तमं राज्यस्तरीयसम्मेलनं श्व आरभ्य कोष़िक्कोट् जनपदे। 

कोष़िक्कोट्> संस्कृतभारत्याः केरलविभागस्य विश्वसंस्कृतप्रतिष्ठानस्य ४५तमं राज्यस्तरीयसम्मेलनं शनिवासरे रविवासरे च कोष़िक्कोट् जनपदे विधास्यति। सम्मेलनस्य उद्घाटनं शनिवासरे अपराह्ने केरलस्य राज्यपालः राजेन्द्र विश्वनाथ आर्लेकरः तोण्डयाटस्थे चिन्मयाञ्जली सभागारे करिष्यति। 

  प्रतिनिधिसम्मेलनं ११तमे दिनाङ्के शिक्षकसदने सम्पत्स्यति। संस्कृतसम्भाषण शिबिरं, वीथीनाटकं, विलम्बरपथसञ्चलनं, संस्कृतग्रन्थानां प्रदर्शनं, संघात्मकं भगवद्गीतापठनं, मनोरञ्जनकार्यक्रमाश्च  सम्मेलनस्य अंशतया भविष्यन्ति।