OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, April 21, 2025

 फ्रान्सिस् मार्पापावर्यः परमधाम्नि विलयं प्राप।


वत्तिकान् सिटी> क्रिस्तीयधर्मे आगोलकत्तोलिकासभायाः परमोन्नतः आत्मीयाचार्यः फ्रान्सिस् मार्पापावर्यः नित्यतां विलयं प्राप। अद्य भारतीयसमयानुसारं मध्याह्नात्पूर्वं ११. १५ आसीत्तस्य वियोगः। ८८ वयस्कः सः कत्तोलिकासभायाः २६६ तमः मार्पापापदीयः अस्ति। 

 क्रिस्तीयधर्मे मानविकतामूल्यानुसारं परिष्करणाय प्रयतितवान्। महिलानां बालकानां चाधिकाराय सदा व्यवहृतवान्। धार्मिकसाहोदर्याय निरन्तरं प्रयत्नं कृतवान् मार्पापावर्यः मानवप्रेमस्य महनीयादर्शरूपेण वर्तमानः आसीत्।

 ट्रम्पं विरुध्य अमेरिक्कायां महान् प्रतिषेधः। 


न्यूयोर्क्> वाषिङ्टणः, न्यूयोर्क् इत्यादिनगरस्थेषु वीथिषु राष्ट्रपतिनं डोणाल्ड् ट्रम्पं विरुध्य महान् जनप्रतिषेधः प्रचलति। ५०५०१ इति कृतनामधेये अस्मिन् प्रतिषेधे सहस्रशः जनाः भागं कुर्वन्ति। ५० राज्यानि, ५० प्रतिषेधाः, एकं लक्ष्यम् इत्यर्थः कल्प्यते अस्यान्दोलनस्य। 

  कर्माचारसंस्थाभ्यः  सेवकानां विसर्जनं, देशाधिवासिनाम् अपनयनं, व्ययाकुञ्चनस्य प्रक्रमाः इत्यादयः राष्ट्रे मूल्यवर्धनस्य कारणं भविष्यतीत्याशङ्का अस्ति। 

  १७७५ एप्रिल् १९ तमे दिनाङ्के सम्पन्ने 'अमेरिकीयान्दोलनस्य' २५० तमे वार्षिकदिने - शनिवासरे- आसीदयं प्रक्षोभः आरब्धः।

 केरले विद्यालयाः जूण् द्वितीये दिनाङ्के उद्घाटयिष्यन्ते।

अनन्तपुरी> केरले सामाजिकविद्यालयाः ग्रीष्मकालीनविरामानन्तरं जूण् मासस्य द्वितीये दिनाङ्के उद्घाटयिष्यन्ते इति  शिक्षामन्त्रिणा वि शिवन्कुट्टिना प्रोक्तम्। राज्यस्तरीयं प्रवेशोत्सवम् आलप्पुषा जनपदे आयोजयिष्यति। मन्त्रिणा निगदितं यत् अस्मिन् वर्षे परिष्कृतानां पाठ्यपुस्तकानां  प्रकाशनं बुधवासरे अनन्तपुर्यां मुख्यमन्त्रिणा पिणरायि विजयेन निर्वक्ष्यति।

 अमेरिकस्य उपराष्ट्रपतिः जे.डी. वान्सः अद्य भारतम् आगच्छति।

    अमेरिकादेशस्य उपराष्ट्रपतिः जे.डी. वान्सः अद्य भारतदेशं प्रति आगच्छति। दिनचतुष्टयस्य भारतसंदर्शनाय सः स्वकुटुम्बसहितम् आगच्छति। अद्य प्रभाते पाळं-विमानपत्तने समागच्छन्तं तं विदेशकार्यमंत्रालयस्य अधिकारिणः स्वागतं कुर्वन्ति।

   अद्य सायं वान्सः भारतप्रधानमंत्रिणा नरेन्द्रमोदिना सह मेलिष्यति, वाणिज्य-शुल्कसम्बद्धविषयानपि च प्रमुखतया चर्चिष्यन्ति।

Sunday, April 20, 2025

 खालिस्थानविघटनवादिनेता हरप्रीत सिंहः यू एसात् निगृहीतः। 

वाषिङ्टणः> पञ्चाबे विधत्तेषु बहुषु भीकराक्रमणेषु भागं कृतवान् इत्यतः भारतेन मार्ग्यमाणः खालिस्थानविघटनवादिनेता हरप्रीत सिंहः यू एस् राष्ट्रात् एफ् बि ऐ इति राष्ट्रियान्वेषणसंस्थया कालिफोर्णियात एव सः निगृहीतः। तस्य निग्रहणं यू एसेन आधिकारिकतया भारतं निगदितम्।

 डेविड् हेड्ली पुनरपि परिप्रष्टव्यः  स्यात्। नवदिल्ली> मुम्बई भीकराक्रमणस्य मुख्यसूत्रधारेषु अन्यतमः डेविड् कोल्मान्  हेड्ली पुनरपि एन् ऐ ए संस्थया परिपृच्छाविधेयः भविष्यति। एन् ऐ ए संस्थायाः निग्रहणे वर्तमानस्य तेहावूर राणस्य परिपृच्छायाः आधारे एव एन् ऐ ए संस्थया अयं निर्णयः कृतः। एतदर्थं यू एस् राष्ट्रस्य साह्यं भारतेन क्रियते इति सूच्यते।

 प्रधानमन्त्रिणः सौदीसन्दर्शनं २२ तमे दिनाङ्के आरप्स्यते। 

नवदिल्ली> भारतस्य प्रधानमन्त्री नरेन्द्रमोदी एप्रिल् २२, २३ दिनाङ्कयोः सौदी अरेब्यां सन्द्रक्ष्यति। उभयोरपि राष्ट्रयोः परस्परसम्बन्धः सबलतरः भविष्यतीति विदेशकार्यसचिवेन विक्रम मिस्री इत्यनेन प्रोक्तम्। भारत-गल्फ-यूरोप् आर्थिकमध्यमार्गः, समुद्रसुरक्षा इत्यादयः विषयाः चर्चिष्यन्ते।

Saturday, April 19, 2025

 गासानिवासिनः अतिदैन्यमनुभवन्ति।

पान-भोज्य-औषध-चिकित्सालयसुविधाः विनष्टाः। 

गासा सिटी>  इस्रयेलस्य निरन्तराक्रमणेन गासामधिनिवसन्तः लक्षशः जनाः बहुक्लेशम् अनुभवन्ति। मुख्यातुरालयाः प्रायशः सर्वे बोम्बाक्रमणे विशीर्णाः। आक्रमणे क्षतेभ्यः परिचर्यासुविधा न लभते। विभवाः न लभन्ते इत्यतः भोज्यनस्तूनां दुर्भिक्षता अनुभूयते। विद्युत् संचारणसुविधाः विनष्टाः। जनावासकेन्द्रेषु इस्रयेलस्य आक्रमणम् अनुवर्तते। 

  हमासेन जनाधिवासकेन्द्राणि कवचरूपेण स्वीक्रियन्ते इति  इस्रयेलस्य आरोपः। युद्धसमाप्तये अन्ताराष्ट्रियमध्यस्थश्रमाः निर्जीवाः वर्तन्ते।

 विष़िञ्ञं वाणिज्यमहानौकाश्रयः 

प्रधानमन्त्रिणा राष्ट्रसमर्पणं मेय् २ दिनाङ्के। 


अनन्तपुरी> केरलस्य स्वप्नाभियोजनां , विष़िञ्ञं प्रदेशस्थे समुद्रे स्थापितं वाणिज्यमहानौकाश्रयं प्रधानमन्त्री नरेन्द्रमोदी मेय्मासस्य द्वितीये दिनाङ्के राष्ट्राय समर्पयिष्यति। डिसम्बरमासे सम्पूर्णतया प्रवर्तनमारब्धस्य नौकाश्रयस्य आधिकारिकम् उद्घाटनमेव प्रधानमन्त्री निर्वक्ष्यति। 

  नौकाश्रयपरिसरे सविशेषं निर्मायमानायां वेदिकायां राष्ट्रसमर्पणकार्यक्रमाः विधास्यन्ते। जूलैमासे परीक्षणचालनं मुख्यमन्त्रिणा पिणरायि विजयेन कृतमासीत्।

 भूमिं विना ग्रहान्तरे प्राणः!

१२४ प्रकाशवर्षाध्वनि बृहत्ग्रहे प्राणोपपत्तिः।


न्यूयोर्क्> भूमिमतिक्रम्य प्राणस्पन्दनं मार्गमाणस्य मानवस्य प्रयत्ने निर्णायकाधिगमेन शास्त्रज्ञाः। भूमेः १२४ प्रकाशवर्षस्य दूरे 'लियो' इति नक्षत्रसमूहे वर्तमानः 'के २ - १८ बि' इत्यस्मिन् बृहद्ग्रहे प्राणोपपत्तेः दृढा सूचना लब्धा। 

  ब्रिटन-यू एस् गवेषकसंघ एवास्य अधिगमस्य पृष्ठतः। केवलं जैवप्रक्रियया एव सम्भूयमानस्य वायूनां सान्निध्यं तस्य ग्रहस्यान्तरिक्षे अधिगतमति प्राणानुमानाय दिशासूचकमभवत्। नासायाः शक्ततमां दूरदर्शनीं 'जयिंस् वेब्' नामकमपयुज्य आसीदयमधिगमः। 

  २०१७ तमे वर्षे कानडीयायाः शास्त्रज्ञाः चिलिराष्ट्रे बहिराकाशनिलये  स्थापितया दूरदर्शिन्या के २- १८बि इति ग्रहः अधिगतः। भूमेः ८. ६ गुणितं भारपरिमाणमस्ति। उपरितले जलमूढ्यमानं वासयोग्यं मण्डलमप्यस्तीति निगम्यते।

Friday, April 18, 2025

 उर्दू भारतीयभाषा; धार्मिकसम्बन्धः न कार्यः - सर्वोच्चन्यायालयः। 

नवदिल्ली>  उर्दू भारते लब्धजन्मा भाषा अस्ति, तां केनापि धार्मिकविभागेन सह सम्बन्धः न कर्तव्य इति च सर्वोच्चन्यायालयेन आदिष्टम्।महाराष्ट्रे उर्दूभाषायां स्थापितानि सूचकफलकानि अपनयनीयानि इत्यभियाचिकां निरस्य एव न्यायालयस्य आदेशः। 

   नीतिपीठेन निरीक्षितं यत्   मराठी, हिन्दी इत्येताः इव उर्दू अपि अस्मिन् विश्वे आविर्भूता इन्डो-आर्यगोत्रवर्गस्था भाषा भवति। हिन्दीभाषां हैन्दवानां उर्दुम् इस्लामिकानां च भाषा इति अधिनिवेशवर्गैः भारतसामाजिक विभजनाय उपयुक्तमासीत्।

 चीनस्य उपरि अमेरिकायाः आयातकरः २४५% इति वर्धितम्। 

वाषिङ्टणः> यू एस् राष्ट्रं प्रति निर्यातवस्तूनां चीनेन २४५% शुल्कः दातव्यः इति वैट् हौसेन निगदितम्। अमेरिकातः 'बोयिङ्' विमानानि विमाननिर्माणवस्तूनि वा न क्रेतव्यानीति चीनस्य निर्देश एव शुल्कवर्धनस्य हेतुरिति सूच्यते। 

  चीनादृते अन्यानां राष्ट्राणामुपरि विहितः अधिकशुल्कः ९० दिनानि यावत् जडीकृत आसीत्। व्यापारचर्चेभ्यः ७५ राष्ट्राणि उपागतानीति यू एसेन प्रस्तुतम्।

Thursday, April 17, 2025

 ९० दिनानि, ९० व्यापारसन्धयः

ट्रम्पसंघस्य लक्ष्यम्। 

वाषिङ्टणः> इतरराष्ट्रेभ्यः प्रतिकारशुल्कस्य संग्रहणं पिण्डीकृतेषु  ९० दिनेषु ९० व्यापारसन्धयः डोनाल्ड ट्रम्पेन लक्ष्यीक्रियन्ते इति वैट् हौसस्य व्यापारोपदेष्टा पीटर् नवारो निगदितवान्। राष्ट्रैः सह व्यापारचर्चासु  ट्रम्प एव नायक इति तेनोक्तम्।

 मूल्यवर्धनं ३. ३४% इति न्यूनीकृतम्। 

मुम्बई> भारते वस्तूनां मूल्यवर्धनमानं अनुस्यूततया द्वितीयमासे अपि रिसर्वबैंकस्य ४% इति निर्दिष्टपरिधेः अधः वर्तते। मार्च् मासे उपभोक्तृमूल्यमाधारीकृत्य मूल्यवर्धनं ३. ४% इति  न्यूनीकृतम्। भोज्यवस्तूनां मूल्यशोषणमेव अस्य हेतुः। 

  अधिकतमं मूल्यवर्धनं केरले अनुभूयते - ६. ५९%। केरलग्रामेषु ७. २९% यावत् मूल्यवर्धनमानमनुभूयते।

 नाषणल् हेराल्ड् प्रकरणं - 

सोणियागान्धिनं राहुल गान्धिनं च विरुध्य अपाराधारोपपत्रं समर्प्य 'ई डि'। 

राहुलगान्धी सोनिया गान्धी च। 

नवदिल्ली>   नेषणल् हेराल्ड् इति पत्रिकासंस्थायाः आर्थिकद्रव्यानि गुप्तमार्गेण स्वायत्तीकृतानि इत्यारोप्य भारतीय कोण्ग्रस् नेतारौ सोणियागान्धिः  राहुल गान्धिः इत्येतौ च विरुध्य प्रवर्तन निदेशालयेन [ई डि] अपराधारोपपत्रं दिल्लीस्थं रोस् अवन्यू न्यायालयं समार्पयत्। एतत्तु  नूतनराजनैतिक-नियमसंग्रामस्य हेत्वात्मकं भविष्यति। 

  प्रकरणेSस्मिन् सोणिया प्रथमापराधी राहुलः द्वितीयापराधी चास्ति। एतौ विना कोण्ग्रस् नेतारौ सां पित्रोडा, सुमन दुबे च अपराधपत्रे सूचितौ। प्रकरणं  परिगणितवान् न्यायाधीशः विशाल् गोग्नेवर्यः एप्रिल् २५ तमे दिनाङ्के पुनःपरिगणायै निश्चितवान्।

Wednesday, April 16, 2025

 १२,५०० वर्षेभ्यः पूर्वं वंशनाशमापन्नस्य घोरवृकस्य [Direwolf] जनितकतन्त्रविज्ञानेन पुनर्जन्म! 

जनितकतन्त्रविज्ञानीयेन पुनर्जन्म लब्धवन्तौ घोरवृकशाबकौ। 

टेक्सास् >  १२,५०० वर्षेभ्यः पूर्वं वंशविनाशमापन्नम् इति विश्वास्यमानाय घोरवृकविभागाय [Direwolf] शास्त्रज्ञैः जनितकतन्त्रविज्ञानेन पुनर्जन्म दत्तम्। टेक्सास् आस्थानत्वेन वर्तमानया कोलोसल् बयोसयन्सस् इति संस्थया इयमुपलब्धिरापन्ना।

  रोमुलस् , रमस् इति कृतनामधेययोः एतयोः वृकशाबकयोः षण्मासानां वयः अस्ति। २०२४ ओक्टोबर् प्रथमदिनाङ्के लब्धजन्मनोः एतयोः इदानीं चतुर्पादमितं दैर्घ्यं ३६ किलोमितं भारश्च अस्ति।

  पुरातनकाले उत्तरामेरिकायां विहृतवान् जीविवर्गः आसीत् घोरवृकः। अधुनातनकालीनस्य वृकवर्गादपेक्षया बृहत्, घनरोमायुतः, विस्तृतचिबुकास्थियुक्तश्चासीत् अयं जीविवर्गः। घोरवृकस्य पुनरुज्जीवने अस्य 'पुरातन डि एन् ए अंशः, क्लोणिङ्, जनितकसन्निवेशः इत्येते प्रयोजकीभूताः इति कोलोसल् बयोसयन्स् संस्थया प्रोक्तम्।

Tuesday, April 15, 2025

 विद्यालयेषु उन्मादकोपयोगनिरोधः - शिक्षकेभ्यः परिशीलनं विहितम्। 

अनन्तपुरी> केरले  विद्यालयेषु छात्राणाम् उन्मादकवस्तूपयोगस्य निर्मार्जनाय अस्य वर्षस्य विरामकालीनाध्यापकपरिशीलने  उन्मादकविरुद्धपरिशीलनमपि अन्तर्भावयति। छात्रान् उन्मादकवस्तूनां प्रभाववलयात् विमोचयितुम् एकदिनात्मकं प्रायोगिकपरिज्ञानं विधत्तम्। 

  उन्मादकविरुद्धविभागस्य अधिकारिणः मानसिकारोग्यविशारदाश्च बोधनक्रियाकक्ष्यायां भागं स्वीकरिष्यन्ति। विद्यालयेषु शिक्षक-रक्षाकर्तृसमितीनां सामान्यजनानां च भागभाक्त्वं दृढीकरिष्यति। छात्राणां मानसिकोल्लासवर्धनाय विद्यालयपरिसरं सौहार्दात्मकं विधास्यति।

 अम्बद्करस्य जन्मवार्षिकं प्रकीर्तितम्।


 

नवदिल्ली> राष्ट्रसंविधानशिल्पिनः डो बी आर् अम्बद्करमहाशयस्य १३५ तमं जन्मविर्षिकं ह्यः विविधैः कार्यक्रमैः आराष्ट्रम् आचरितम्। नवदिल्ल्यां संसदङ्कणस्थे प्रेरणास्थल् इत्यत्र केन्द्रप्रशासनस्य आभिमुख्ये विविधाः कार्यक्रमाः सम्पन्नाः। अम्बद्करप्रतिमायां राष्ट्रपतिः द्रौपदी मुर्मू, प्रधानमन्त्री नरेन्द्रमोदी, लोकसभाध्यक्षः ओम् बिर्ला इत्यादयः पुष्पहारान् समर्प्य अम्बद्करस्य राष्ट्रसेवनानि प्रकीर्तितानि। 

  राष्ट्रनिर्माणाय प्रयततितुं भाविपरम्परायै अम्बद्करवर्यस्य प्रभावः प्रचोदनं भविष्यतीति द्रौपदी मुर्मूवर्यया प्रस्तुतम्। आराष्ट्रं  राज्यसर्वकाराणां नेतृत्वे अपि विविधाः कार्यक्रमाः आयोजिताः।