९९% जनाः मलिनीकृतं वायुं श्वसिति - विश्वस्वास्थ्यसङ्घटनम् ।
OUR YouTube Channel 1. SampratiVartah |
marquee
Thursday, April 7, 2022
ऐ ऐ टि काण्पूराय १०० कोटिरूप्यकाणि इन्डिगो सहस्थापकेन प्रदत्तानि।
नवदिल्ली> राष्ट्रे काण्पूर् इन्ड्यन् इन्स्टिट्यूट् ओफ् टेक्नोलजि इति विख्याताय प्रमुखशिक्षासंस्थायै १०० कोटि रूप्यकाणि दानं कृत्वा विस्मयपात्रम् अभवत् इन्डिगो वायुमार्गस्य सह स्थापकः राकेष् गाङ्वालः। ऐ ऐ टि काण्पूरस्य पूर्वविद्यार्थी आसीत् गाङ्वालः। ऐ ऐ टि काण्पूरस्य निदेशकेन अभय् करण्डिकरेण विषयमिदं ट्वीट् कृतम् । ऐ ऐ टि स्कूल् ओफ् मेडिक्कल् सयन्स् आन्ट् टेक्नोलजि संस्थायाः विकासाय प्रदान मिदम् उपयोत्स्यति।
वंगान्तरालसमुद्रे तापः वर्धते।
कोच्ची> वंगान्तरालसमुद्रे तापः अधिकतया संवर्धते इत्यतः एव चक्रवातावर्तस्य अतिवृष्टेः च कारणमिति गवेषणफलम्। कोच्चीस्थे 'कुसाट् रडार् गवेषणकेन्द्र'स्य शास्त्रज्ञः डो एम् जि मनोजकुमारः अमुं वृत्तान्तं व्यजिज्ञपत्।
मासद्वयाभ्यन्तरे त्रयः चक्रवातावर्ताः जाताः। पर्यावरणव्यतियानेनैव समुद्रे इदमतितापनम्। वंगान्तस्समुद्रे कतिचित्स्थानेषु २९ - ३० डिग्रीपरिमितमेव तापः। साधारणतापात् ०.५ आरभ्य १डिग्रीपर्यन्तमधिकः भवति। हरितगृहवातकानाम् अमितसान्निध्यमेव भूतलतापवर्धनस्य कारणम्। अस्य वर्धिततापस्य ९३% समुद्रः एव स्वीकरोति। तस्यानन्तरफलमेव चक्रवातावर्ताः मेघगर्जनेन सह वृष्टिः।
Wednesday, April 6, 2022
श्रीलङ्कायां सर्वदलीयप्रशासनरूपीकरणं विफलं जातम्; राष्ट्रं निर्वाचनमवाप्नोति।
कोलम्बो> श्रीलङ्कायां विपक्षदलानां निस्सहकरणेन सर्वदलीयप्रशासनरूपीकरणं विफलं जातम्। संसदः ४२ सदस्याः त्यागपत्रं समर्पितवन्तः इत्यतः गोताबय राजपक्से इत्यस्य सर्वकारः दुर्बलोऽभवत्। सामान्यनिर्वाचनात् ऋते न अन्यः पदक्षेपः अस्ति इत्यवस्थां प्राप्नोति देशः।
२२५ अङ्गयुक्ते श्रीलङ्कासंसदि गोताबयसर्वकाराय १५० सदस्यानां सहयोगमासीत्। किन्तु ४२ सदस्यानां त्यागपत्रसमर्पणेन अंगबलं १०८ इति न्यूनीभूतम्। केवलभूरिपक्षाय ११३ सदस्यानां सहयोगः आवश्यकः।
Tuesday, April 5, 2022
श्रीलङ्कायां राजपक्सेप्रशासनेन त्यागपत्रं समर्पितम्।
कोलम्बो> आर्थिकसंकटेन श्रीलङ्कादेशे जनकीयप्रक्षोभे तीव्रे जाते प्रधानमन्त्री महिन्द राजपक्से इतरे मन्त्रिणश्च त्यागपत्रं समार्पयन्। राजपक्से सर्वकारं विरुध्य जनाः आपत्कालीनव्यवस्थां कर्फ्यूनामकं निरोधं च तृणवत्कृत्य वीथिं सम्प्राप्य प्रतिषेधं प्रकटितवन्तः आसन्।
अल्पकालिकरूपेण सर्वदलीयप्रशासनरूपीकरणाय प्रयत्नः आरब्ध इति सूच्यते।
भारते कोविड्रोगिणः अधोसहस्रं प्राप्ताः।
नवदिल्ली> राष्ट्रे वर्षद्वयानन्तरं प्रथमतया प्रतिदिनकोविड्रोगिणां संख्या सहस्रादधः जाता। गतदिने केवलं ९१३ जनाः रोगबाधिताः अभवन्।
१३ रोगिणः ह्यः मृत्युवशं गताः। आहत्य मृत्युसंख्या ५,२१,३५८ अभवत्। १२,५९७ रोगिणः परिचर्यायां वर्तन्ते।
रोगिणां संख्या आकुञ्चति इत्यतः मुखावरक-शारीरिकदूरं विहाय सर्वाणि नियन्त्रणानि सर्वकारेण अपाकृतानि आसन्। दिल्ली, महाराष्ट्रं, पश्चिमवंगराज्यैः मुखावरकम् अनपेक्षणीयं कृतमस्ति।
Sunday, April 3, 2022
ब्रिट्टणे ओमिक्रोण् वि भेदापेक्षया अतिव्यापनक्षमतायुक्तः एक्स् ई नाम नूतनः कोविड्रोगाणुविभेदः दृढीकृतः।
लण्डन्> ब्रिट्टणे नूतनः कोविड्रोगाणुविभेदः दृढीकृतः इति विश्वस्वास्थ्यसंस्था। एक्स् ई इति नाम्ना ख्यातस्य रोगाणुविभेदस्यास्य ओमिक्रोण् नाम विभेदापेक्षया अतिव्यापनक्षमता अस्ति इति विश्वस् वास्थसंस्थया प्रकाशिते प्रतिवेदने सूचितमस्ति। प्राथमिकतलनिरीक्षणे ओमिक्रोणस्य बि ए 2 विभेदापेक्षया दशगुणिता व्यापनक्षमता भवितुं साध्यता अस्ति इति विश्वस्वास्थ्यसंस्था अभिप्रैति।
श्रीलङ्कायाम् आपत्कालीनशासनव्यवस्था।
कोलम्बो> तीव्रेणार्थिकप्रतिसन्धिना क्लेशमनुभवत्यां श्रीलङ्कायां जनानां प्रक्षोभं प्रतिरोद्धुं शुक्रवासरस्य अर्धरात्रादारभ्य आराष्ट्रम् आपत्कालीनशासनव्यवस्था विधत्ता। शनिवासरस्य सायं षड्वादनतः ३६ होरात्मकं 'कर्फ्यू'नामकं प्रवर्तननिरोधनं च विहितम्। राष्ट्रपतेः गोताबय राजपक्सेवर्यस्य गृहस्य पुरतः गतदिने संवृत्तः प्रतिषेधः अक्रमासक्तः अभवदित्यनेन हेतुना एव आपत्कालिका व्यवस्था विहिता।
प्रत्युत अद्य राष्ट्रे सर्वत्र 'अरबवसन्त' प्रक्षोभसदृशानि प्रतिषेधप्रवर्तनानि आयोजयितुं आह्वानं कृतम्। अनेनैव कारणेनैव सोमवासरे प्रभातपर्यन्तं कर्फ्यू विहितम्।
कोलम्बोमध्ये राष्ट्रस्य विविधस्थानेषु च सैनिकबलं विन्यस्तम्। तन्त्रप्रधानानि स्थानानि सुरक्षया प्रबलीकृतानि।
बालभारती पब्लिक विद्यालये नवसत्रारम्भ: पुस्तकविमोचनञ्च
नवदिल्ली> सर गंगाराम हॉस्पिटल मार्गस्थिते, बाल भारती पब्लिक् विद्यालये कोरोना-संक्रमणस्य भयानकस्थिते: पश्चात् ऐदम्प्राथम्येन भौतिकरूपेण नूतन-शैक्षिकसत्रस्य आरम्भस्य उपलक्ष्ये शनिवासरे हवनकार्यक्रम: आयोजित:। अस्मिन् आयोजने विद्यालयस्य प्रधानाचार्य: श्री एल. वी. सहगलवर्य: उपप्रधानाचार्या श्रीमती मीना मल्होत्रा च मुख्ययजमानत्वेन उपातिष्ठताम्। अस्मिन् कार्यक्रमे सम्पूर्णविद्यालय-परिवार: उपस्थित: आसीत्। धर्मसंस्कारस्य ज्ञाता, भारतीयपरम्पराया: पुरोधा पंडित श्रीललितमिश्रवर्य: वेदमन्त्राणामुच्चारणपूर्वकं हवनं सम्पादितवान्। अस्मिन् हवने सर्वै: उपस्थित-शिक्षकै:, छात्रै,: च समस्तविद्यालयस्य सदस्यै: साकं
Saturday, April 2, 2022
शतदिनाभ्यन्तरे अयुतं जनानां सर्वकारोद्योगं दातुम् उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगी आदित्यनाथस्य निर्देशः।
Friday, April 1, 2022
महाराष्ट्रे मुखावरकं निवार्यते।
मुम्बई> महाराष्ट्रे मुखावरणधारणमभिव्याप्य सर्वाणि कोविड् नियन्त्रणानि दूरीकृतानि। गतदिने मन्त्रिमण्डलस्य उपवेशानन्तरं मुख्यमन्त्रिणा उद्धव ताक्करे वर्येणैव निर्णयाः प्रख्यापिताः।
मरात्तीयानां नववत्सरदिनात् एप्रिल् द्वितीयदिनाङ्कतः एतानि लाघवानि प्रवृत्तिपथमागमिष्यन्ति। वर्षद्वयानन्तरमेव राज्ये कोविड् नियन्त्रणानि अपनीयन्ते।
Wednesday, March 30, 2022
युक्रेन् - आक्रमणं न्यूनीकरिष्यतीति रषिया।
कीव्> तुर्कीस्थे इस्ताम्बूले सम्पन्नायां शान्तिचर्चायाम् आश्वासपूर्णा प्रगतिः। कीव् चेर्णीव् क्षेत्रेषु आक्रमणं न्यूनीकरिष्यतीति रषियायाः प्रतिनिधिसंघे अन्तर्भूतः रक्षासहमन्त्री अलक्साण्टर् फोमिन् इत्यनेन निगदितम्। चर्चायां आशावहा प्रगतिरभूदिति मध्यस्थः तुर्कीराष्ट्रपतिः रजप् तय्यिप् इत्येषश्च प्रोक्तवान्। पुटिन-सेलन्की मेलनम् अचिरादेव भविष्यतीति चर्चायाः युक्रेनस्य प्रतिनिधिः डेविड् अराखामिया इत्यनेन उक्तम्।
'नाटो' समित्यामङ्गत्वमिति याचना युक्रेनेन त्यक्ता इति सूच्यते। किन्तु नाटोनियमस्य पञ्चमानुच्छेदमनुसृत्य राष्ट्रसुरक्षा आवश्यकीति युक्रेनस्य अपेक्षा। प्रतिसन्ध्यवस्थासु राष्ट्रैः परस्परसाह्यं करणीयमिति पञ्चमानुच्छेदस्य सत्ता।
इन्धनमूल्यं षष्ठदिनेऽपि वर्धापितम्।
कोच्ची> यानेन्धनस्य मूल्यं अनुस्यूततया षष्ठदिनेऽपि वर्धापितम्। पेट्रोल् तैलस्य ८८ पैसापरिमितस्य डीसल् तैलस्य ८४ पैसापरिमितस्य च वर्धनं गतदिने जातम्। अनेन केरले पेट्रोल् तैलस्य डीसल् तैलस्य च मूल्यं यथाक्रमं ११०. २८, ९७. ३२ रूप्यकाणि अभवन्। मार्च् २२ दिनाङ्कतः षट् रूप्यकाणां वर्धनमभवत्।
नवदिल्ल्याम् उड्डयनात् पूर्वं स्तम्भे घट्टयित्वा विमानस्य पक्षः भग्नः।
नवदिल्ली> नवदिल्ली विमानपत्तने उड्डयनात् पूर्वं स्पैस् जेट् विमानम् वैद्युतस्तम्भे अघट्टयत्। घट्टनाघातेन स्तम्भः पूर्णतया भग्नः। विमानस्य तु क्षतिः अभवत्। विमानयात्रिकाः क्षतिं विना रक्षां प्रापुः। नवदिल्लीतः जम्मूकाश्मीरं प्रति प्रस्थितस्य विमानस्य वामपक्षः एव वैद्युतस्तम्भे घट्टयित्वा विदीर्णः। घटनायाः अस्याः अन्वेषणाय अधिकृतैः निर्देशो दत्तः।
Tuesday, March 29, 2022
हरियाणासंस्कृतविद्यापीठे अन्ताराष्ट्रियसंगोष्ठी॥
(वार्ताहरः वत्स देशराज शर्मा)
इम्रान् खानं विरुध्य अविश्वासप्रमेयः - पाकिस्तानसंसदि चर्चा आरब्धा।
इस्लामाबादः> प्रधानमन्त्रिणं इम्रान् खानं विरुध्य समर्पिते अविश्वासप्रमेये पाकिस्तानसंसदि चर्चा आरब्धा। राष्ट्रियसंसदः विपक्षनेता तथा च 'पाकिस्थान् मुस्लीमलीग् [नवास्]' दलस्य अध्यक्षः षेह्बास् षरीफ् इत्यनेन प्रमेयपत्रं अधोसभायां समर्पितम् ।
चर्चां पूर्तीकृत्य एप्रिल् ३ - ७ दिनाङ्कयोर्मध्ये प्रमेयस्योपरि मतदानं भवेत्।
प्रधानमन्त्रीपदात् निष्कासयितुं विदेशधनम् उपयुज्यते- इम्रान्खानः।
इसलामाबाद्> अविश्वासनिर्णय-विधेयकद्वारा निष्कासनभीषां अभिमुखीक्रियमाणः पाकिस्थानस्य प्रधानमन्त्री इम्रान्खानः इस्लामाबादे स्वस्य दलस्य शक्तिं प्रदर्शितवान्। प्रधानमन्त्रीपदात् तं निष्कासयितुं विपक्षदलीयाः विदेशधनम् व्ययं कुर्वन्ति इत्यस्मिन् विषये स्ववशे प्रमाणमस्ति इति सहस्रशान् जनान् अभिसंबोधनं कृत्वा इम्रान्खानेन प्रोक्तम्।
Monday, March 28, 2022
राष्ट्रं विभक्तुं रषिया यतते - युक्रेनः।
कीव्> राष्ट्रं द्विधा विभक्तुं रषिया यतते इति युक्रेनस्य गुप्तान्वेषणविभागस्य प्रमुखः किरिलो बुधनोवः आरोपितवान्। राष्ट्रविभजनाय अपेक्षितान् प्रदेशान् स्ववशं कर्तुं युक्रेनस्य पूर्वमण्डलेन सह क्रैमियां सम्बद्धुं च रूस् राष्ट्रपतेः व्लादिमर् पुतिनस्य लक्ष्यमिति सः उक्तवान्।
प्रत्युत रूस् राष्ट्रेण सह मेलितुं जनानां तात्पर्यावगमनाय युक्रेनस्य लुहान्स्क् प्रदेशे हितपरिशोधनां करिष्यतीति तत्रस्थैः रषियानुकूलविमतैः उक्तम्। लुहान्स्क्, डोणटिस्क् नामकाः प्रदेशाः स्वतन्त्राः अभवन्निति पुटिनेन पूर्वं प्रख्यापितमासीत्।
जीवजलस्य कृते श्रीमान् नारायणाय मोदिनः अभिनन्दनानि।
Sunday, March 27, 2022
सर्वकारं प्रति 'सविनयं' नावश्यकम्।
अनन्तपुरी> केरले सर्वकारीयसंस्थाः अभिव्याप्य सर्वकारीय-अर्धसर्वकारीय-सामान्यमण्डलसंस्थासु समर्प्यमानासु सामान्यजनानामभ्यर्थनासु 'विनम्रतया' इत्यर्थकं पदं नावश्यकमिति। राज्यस्य प्रशासनपरिष्कारविभस्यायमादेशः। सविनयमिति पदं परित्यज्य अभ्यर्थ्यते अपेक्षते वा इत्युपयोक्तुं शक्यते।
चरकशपथम्' अधुना नास्ति।
नवदिल्ली> वैद्यकीयछात्राणां बिरुददानवेलायां 'हिप्पोक्राट्टीयशपथं' विसृज्य 'महर्षि चरकशपथम्' अन्तर्भावयितुं राष्ट्रिय वैद्यक आयोगस्य उपदेशं शीघ्रं न विधास्यतीति केन्द्रप्रशासनेन निर्णीतम्। विषयेऽस्मिन् स्वास्थ्यमन्त्रालयेन अद्यावधि निर्णयः न कृत इति लोकसभायां केषाञ्चित् सदस्यानां प्रश्नानां प्रतिवचनरूपेण स्वास्थ्यसहमन्त्री भारती पर्वीण् पवारः उक्तवान्।
युक्रेनाय बैडनस्य अधिकसैनिकसाह्यवाग्दानम्।
वार्सा> रषियां प्रतिरोद्धुं युक्रेनाय अधिकतया सैनिकसाह्यं करिष्यामीति अमेरिक्कायाः राष्ट्रपतिः जो बैडनः वाग्दानमकरोत्। चतुर्दिवसीयसन्दर्शनाय पोलण्टराष्ट्रं प्राप्तवान् बैडनः युक्रेनीयमन्त्रिभिस्सह कृते अभिमुखे एव वृत्तान्तमिदं न्यवेदयत्। युक्रेनस्य विदेशमन्त्री, रक्षामन्त्री, अमेरिक्कायाः विदेश-रक्षासचिवौ इत्यादयः समुपवेशने भागं कृतवन्तः।
युक्रेनस्य आर्थिक मानवीय लक्ष्याणां च सर्वविधसहयोगाः अमेरिक्कया वाग्दत्ताः।
अद्य अर्धरात्रादारभ्य राष्ट्रियकर्मविरामः; अवश्यसेवाः परिवर्जिताः।
नवदिल्ली> केन्द्रसर्वकारं विरुध्य विपक्षदलीयैः संयुक्तकर्मचारिसंघटनैः उद्घुष्टं दिनद्वयस्य देशीयकर्मविरामान्दोलनं अद्य अर्धरात्रे आरभते। किन्तु क्षीर-वार्तापत्र-आतुरालयादीनि अत्यन्तापेक्षितानि सेवनानि कर्मविरामान्दोलनात् परिवर्जितानि।
मार्च् २७ रात्रौ १२ वादनतः २९ रात्रौ १२ वादनपर्यन्तमेवान्दोलनम्।
वार्तामुद्रणकाकदस्य दौलभ्यतया श्रीलङ्कायां वार्तापत्रद्वयस्य प्रकाशनम् अवरुद्धम्।
कोलम्बो> श्रीलङ्कायां आर्थिकसङ्कटकारणेन जातस्य वार्तामुद्रणकाकदस्य दौलभ्यतया मूल्यवर्धनहेतुना च वार्तापत्रद्वयस्य प्रकाशनं स्थगितम्। वार्तामुद्रणकाकद-दौलभ्यतया 'द ऐलण्ड्' नाम आङ्गलेयवार्तापत्रिकायाः तथा दिवयीन नाम सिंहलवार्तापत्रिकायाः च मुद्रणं तत्कालिकतया बन्धितम्। १९८१ संवत्सरादारभ्य प्रकाश्यमाना 'द ऐलण्ड्' नाम दिनपत्रिका इ -पत्रिका रूपेण प्रवर्तते इति अधिकारिभिः प्रतिवेदितम्।
Saturday, March 26, 2022
उत्तरप्रदेशे योगी आदित्यनाथः पुनरपि मुख्यमन्त्रिपदमारूढवान्।
लख्नौ> भा ज पा नेता योगी आदित्यनाथः अविरामेण द्वितीयवारमपि उत्तरप्रदेशस्य मुख्यमन्त्रिरूपेण शपथवाचनं कृतवान्। द्वौ उपमुख्यमन्त्रिणौ अभिभूय ५२ मन्त्रिणश्च तेन सह शपथवाचनं कृत्वा अधिकारं प्राप्तवन्तः।
लख्नौस्थे ए बि वाजपेयी क्रीडाङ्कणे सम्पन्ने समारोहे राज्यपालः आनन्दीबन् पट्टेलः शपथवाचनं कारितवान्। प्रधानमन्त्री नरेन्द्रमोदी, राजनाथसिंहः, अमितषाहः, स्मृति इरानी इत्यादयोSपि कार्यक्रमे सन्निहिताः आसन्।
इम्रान् खानं विरुद्ध्य अविश्वासप्रमेयः न परिगणितः।
इस्लामबाद्> पाकिस्थानप्रधानमन्त्रिणं इम्रान् खानं विरुध्य विमतपक्षेण समर्पितः अविश्वासप्रमेयपत्रं पाकिस्थानसंसदा शुक्रवासरे न परिगणितम्। सदस्यः खायल् समन् इत्यस्य देहवियोगे श्रद्धाञ्जलिं प्रकाश्य सोमवासरपर्यन्तं सभा अवष्टम्भिता। गतदिनस्य कार्यक्रमेषु अविश्वासप्रमेयपत्रं नान्तर्भावितमित्यतः विपक्षदलीयैः प्रतिषिद्धमासीत्।
पाकिस्थानस्य आर्थिकप्रतिसन्धेः द्रव्यमूल्यातिवर्धनस्य च हेतुः इम्रान् खानस्य विलक्षितनयाः इत्यारोप्य मार्च् ८ तमे उपशतं विपक्षसदस्याः अविश्वासप्रमेयपत्रं समर्पितवन्तः। इम्रान् खानस्य दलात् २५ विमतसदस्याः अपि प्रमेयानुकूलिनः भविष्यन्तीति वृत्तान्तं बहिरागतम्।
Friday, March 25, 2022
रूसीयभीषा - पूर्वयूरोपे ४०,००० भटाः विन्यस्ताः भविष्यन्तीति 'नाटो'।
ब्रसल्स्> युक्रैने रूस् राष्ट्रस्य अधिनिवेशः अनुवर्तमानः वर्तते इत्यतः यूोरोपभूखण्डस्य पूर्वभागे सैनिकबलं वर्धापयितुं नाटोनामकराष्ट्रसख्येन निश्चितम्। तदर्थं ४०,००० भटान् विन्यस्तुं बल्जियस्य राजधान्यां - ब्रसल्स् नगरे- सम्पन्ने नाटोराष्ट्राधिपतीनाम् उपवेशने निर्णीतम्।
पूर्वयूरोपस्य वायु-नाविकसंविधानानि विपुलीकरिष्यति। 'सैबर्' आक्रमणानि प्रतिरोद्धुं पदक्षेपान् स्वीकरिष्यन्ते। रासजैवाणवाक्रमणानि प्रतिरोद्धुं युक्रेनाय साह्यं करिष्यतीति च नाटो इत्यस्य सचिवप्रमुखेन जेन्स् स्टोल्टन् बर्ग् इत्यनेन निगदितम्।
Thursday, March 24, 2022
इन्धनमूल्यं वर्धमानं; जीवनक्लेशोSपि वर्धते।
कोच्ची> सार्धचतुर्मासानां विरामकालानन्तरं पेट्रोल्, डीसल्, पाकेन्धनमित्यादीनां मूल्यं संवर्धितम्। वाहनेन्धनस्य मूल्यं तु प्रतिदिनम् उपैकरूप्यमिति क्रमेण वर्धमानमस्ति। पाकेन्धनस्य मूल्यं गतदिने ५० रूप्यकाणि वर्धयति स्म। अतः जनानां जीवनव्ययः अपि वर्धते स्म।
गतवर्षे मार्च् मासे पेट्रोल् तैलस्य मूल्यं ९३. ०५ रूप्यकाणि आसीत्। गतदिने तु तत् १०८. ११ अभवत्। डीसलिन्धनस्य मूल्ये ८ रूप्यकाणां वर्धनमभवत्।
Wednesday, March 23, 2022
श्रीलङ्कायाम् आर्थिकसमस्या; दुर्भिक्षभीत्या जनाः पलायन्ते।
कोलम्बो> आर्थिकसमस्यया श्रीलङ्का महान्तं क्लेशमनुभवति। जनजीवनं दुस्सहमभवत्। दौर्भिक्ष्यं भविष्यतीति मत्वा जनाः पलायनमारभन्त। षट् श्रीलङ्कीयनागरिकाः गतदिने तमिल्नाटे रामेश्वरं प्राप्ताः। भारत तटसंरक्षणसेनया ते परिप्रश्नविधेयाः कृताः।
अवश्यवस्तूनां मूल्यातिवर्धनमभवत्। मूल्यातिवर्धनस्य दुर्भिक्षस्य च हेतोः पेट्रोल्-डीसल् तैलादीनां नियन्त्रणं विधत्तम्। पाकवातानिलकोशस्य मूल्यं १३५९ भारतीयरूप्यकाणि अभवत्। विद्युन्निलयाः पिहिताः। एकलिटर् परिमितस्य पेट्रोल् तैलस्य मूल्यं २८३ श्रीलङ्कीयरूप्यकाणि अभवत्। डीसलाय १७६ रूप्यकाणि दातव्यानि। १ लिटर् क्षीरं - २६३, १ किलो तण्डुलं - ४४८ रूप्यकाणि। एतादृशरीत्या एव श्रीलङ्कायाम् अवश्यवस्तूनां मूल्यवर्धनम्। कोविड्महामारेः अनन्तरफलमेव आर्थिकसमस्यया कारणमिति सूच्यते। भारतं, चीनः इत्यादीनि राष्ट्राणि साह्याभ्यर्थितानि सन्ति।
Tuesday, March 22, 2022
रष्येण सह सर्वान् वाणिज्यबन्धान् समापयतु इति यूरोपीयनेतॄन् प्रति सेलन्स्केः आह्वानम्।
कीव्> रष्येण सह सर्वान् वाणिज्यबन्धान् समापयितुं युक्रैन् राष्ट्रपतिना वोलेदिमर् सेलेन्स्किना यूरोपीयनेतृभ्यः आह्वानं दत्तम्। बाल्टिक्राष्ट्राणि आहत्य यूरोपीय - ऐक्यान्तर्गतानि बहूनि राष्ट्राणि रष्यस्य तैलवातकस्य रष्यात् आयापनाय (import) उपरोधं दापयितुं निश्चिते सन्दर्भे एव सेलेन्स्केः अभ्यर्थना ।




