OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, September 6, 2026

 लष्करस्य कमान्डर् पदीयः यासिर् हतः।

श्रीनगरं> निरुद्धभीकरसंघटनस्य लष्कर् ई तोय्बा इत्यस्य कमान्डर् पदीयः यासिर् नामकः क्रूरापराधी सुरक्षासेनया सह प्रतिद्वन्द्वे हतः।  जम्मु-काश्मीरे बड्गामजनपदे शुक्रवासरे आसीदयं पाकिस्थानीयः हतः। 

  जम्मु-काश्मीरे सर्वत्र विधत्तेषु बहुषु भीकराक्रमणेषु यासिरः भागभाक् आसीदिति सुरक्षासेनया निगदितम्। २०२४ तमे वर्षे व्योमसेनाव्यूहं प्रति विधत्तस्य आक्रमणस्य सूत्रधारः अयमासीत्। तथा च तस्मिन् वर्षे एव सोनामार्गे गंगन् गीर् इत्यत्र कञ्चन वैद्यं निर्माणकर्मकरान् चाभिव्याप्य सप्त जनाः भीकराणां भुषुण्डिप्रयोगेण हताः आसन्। तत्रापि अयं भागमकरोत्। यासिरस्य सहप्रवर्तकः मूसा इत्यभिधानाय अन्वेषणम् अनुवर्तते।