| मोदिनः यु एस् सन्दर्शनं - आगोलप्रवेशयोजनां प्रति भारतस्य अङ्गत्वम्।
वाषिङ्टण्> आकस्मिकावश्यार्थं अमेरिक्कां प्रति प्रवेशः सुकरं कर्तुम् उद्दिष्टमानायां "International Expedited Traveler Initiative" नामिकायाम् आगोलयोजनायां भारताय अपि अङ्गत्वं लब्धम्। भारतं विना स्विट्सर्लान्ट्, ब्रिटन् राष्ट्रद्वयमेव अस्यां योजनायाम् अन्तर्भूतम्।
अमेरिक्कां प्रति विभीषिकारहितान् तथा पूर्वमेव यात्रानुमतिं लब्धवतां यात्रिकानाम् अनया योजनया प्रवेशः सुकरः भविष्यति। व्यापार - शैक्षिक बन्धानाम् अभिवृद्धये योजनेयं उपकरिष्यति।
|
. | रक्षासमिति स्थिराङ्गत्वम् - भारताय सहयोगः।
वाषिङ्टण्> ऐक्यराष्ट्ररक्षासमित्यां स्थिराङ्गत्वलाभाय आणववितरणसङ्घप्रवेशाय [एन् एस् जि अङ्गत्वं] च भारताय अमेरिक्काराष्ट्रस्य सहयोगः वाग्दत्तः। प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलने डोणाल्ड् ट्रम्प एव भारताय सहयोगं वाग्दत्तवान्।
राष्ट्रद्वयस्य परस्परवाणिज्यबन्धः शक्तीकरिष्यतीति ट्रम्पेन उक्तम्। भारतस्य सामाजिकार्थिकपरिवर्तनेषु मुख्ययोजनासु च यू एस् राष्ट्राय प्रमुखं स्थानं कल्पतेति मोदिना निगदितम्।
|
| . | . |
OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi
