OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 12, 2017

प्रशिक्षणार्थं चत्वारि युद्धनौकाः कराच्ची समुद्रतीरे।
नवदेहली > भारतीय महासमुद्रे  आधिपत्यं स्थापितुं चैनायाः श्रमं द्रढीकुर्वन्तः चत्वारि चीनीय युद्धनौकाः पाक्किस्थानस्य समुद्रकूले आगताः। पाकिस्थानेन सह चैनायाः बन्धं दृढीभवति इति भारतः चिन्तयति। चतृणां दिनानां प्रशिक्षणार्थं युद्धनौकाः पाक्किस्थानम् आगताः। गतशनिवारे युद्धनौकाः पाक्किस्थानम् आगताः इति चैनायाः औपचारिक वार्तादलेन व्यकतीकृताः।
द्वायोः राष्ट्पतेः परस्परधारणा तथा विश्वासश्च वर्धयितुं सन्दर्शनमिदं साहाय्यं करोति इति चैनीस् पीप्पिल्स् लिबरेषन् आर्मी कमाण्डर सहन् हू अवदत्। राष्ट्रयोः नविकसेनयोः परस्परं आशयविनिमयं साध्यते  तद्वारा विश्वसमाधानं च साध्यते इति सः  अयोजयत्।
चीनायुद्धनौकायां पाक्किस्थान नाविकसेना मेधाविनं गार्ड् आफ् ओर्णर् अयच्छत्। चीना कर्यकर्तारः पाक्किस्थानः कार्यकर्तृभिः सह चर्चां करिष्यन्ति।
पूर्वं चैनायाः अन्तर्वाहिनी कराच्ची तीरे आगता इति सूचना लब्धा आसीत्। मासेभ्यः पूर्वं गूगिल् एर्त् मध्ये आगतं चित्रं बहिरागतम्। गतमेई मासे कराच्ची समुद्रतीरे चैनायाः अन्तर्वाहिनी आगता। भारत महासमुद्रे स्व स्वाधीनं वर्धयितुं तेषां श्रंममिति भारतीय प्रतिरोधकार्यकर्तारः निरीक्षणं कुर्वन्ति।