OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, June 8, 2017

भारते राष्ट्रपतेः निर्वाचनं जूलैमासस्य १७तमे दिने, फलं २० दिने
नवदिल्ली> भारतस्य पञ्चाशत् तमं राष्ट्रपतिं निर्वाचयितुम् निर्वाचनप्रक्रिया जूलैमासस्य सप्तदशे दिने भविष्यति। फलविज्ञप्तिः विंशति दिनाङ्गे च। राज्यसभायाः तथा लोकसभायाः निर्वाचिताः षण्णवत्यधिकाष्टशतोत्तरचतुस्सहस्र संख्याकानां (४८९६) सामाजिकानां निर्वाचनाधिकारः अस्ति। सप्तदश दिनाङ्के प्रातः दश(१०) वादनादारभ्य पञ्चवादनपर्यन्तं निर्वाचनक्रमः प्रचलिष्यति। अस्मिन् सन्दर्भे निर्वाचनालेखनाय विशेषलेखनी अपि निर्वाचनयोगेन दास्यते।