OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, June 8, 2017

विद्यालयेषु परीक्षाप्रणालिः परिष्क्रियते।
अनन्तपुरी> केरले प्रथमकक्ष्यायाः आरभ्य द्वादशकक्ष्यापर्यन्तं परीक्षाप्रणालिः आपादमस्तकं परिष्क्रियते। शिक्षामन्त्रिणः सि रवीन्द्रनाथस्य नेतृत्वे एस् सि ई आर् टि आस्थाने सम्पन्ने उन्नताधिकारिणाम् उपवेशने एतदधिकृत्य निर्णयः जातः। आगस्ट् मासस्य पादवार्षिकमूल्यनिर्णयादारभ्य नूतनसम्प्रदायः प्रवृत्तिपथमागमिष्यति।
     निरन्तरमूल्यनिर्णयम् इतःपरं युक्तियुक्तं कारयिष्यति। एतदर्थं दीयमानः अङ्कः विभिन्नघटकैः विभज्यते। सर्वेभ्यः छात्रेभ्यः सम्पूर्णमङ्कानां दानेन  विजयमानं कृत्रिमेण वर्धयतीति आरोपणमस्ति। अङ्कविभजनं निर्णेतुं एस् सि ई आर् टि संस्थायै उत्तरदायित्वमदात्।
     प्रतिशतं २५ अङ्कानां प्रश्नाः अधिकं दीयन्त इति अन्यः परिष्कारः। विपुलं प्रश्नशेखरमपि सज्जीकरिष्यति।