OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 2, 2017

पारिस् वाग्दत्तसन्धिभ्यः अमेरिक्का प्रतिनिवृत्ता।
वाषिङ्टण् > वातावरणव्यत्ययसम्बद्धः पारिस् सन्धिभ्यः अमेरिका राष्ट्रेण प्रतिनिवृत्यते इति  डोणाल्ड् ट्रम्पेन प्रख्यापितः। निर्वाचन-सन्दर्भे दत्तं वाचं पालयितुमेव एतादृशी प्रतिनिवृत्तिः। आगोलतापनं विरुद्ध्य संग्रामाय लोक राष्ट्राणि ऐकमत्येन तिष्ठन्ति। अतः अनेन निश्चयेन यूरोप् जनानां मध्ये ट्रम्पः अप्रियः भविष्यति। अयं सन्धिः यू एस् विरुद्धः विवेचनात्मकः तथा चीनायाः गूढबुद्धेः परिणितफलं च भवति इति ट्रम्पेन उक्तम्।
पञ्चदशधिक द्वि सहस्रतमे संवत्सरे (२०१५ ) पञ्चनवत्यधिकैकशतं (१९५) राष्ट्रैः सन्धौ हस्ताक्षरं कृतम्। सिरिया निक्वराग्व च सन्धौ नास्ताम्। अन्तरीक्षमलिनीकरणस्य कारणभूतः अङ्गारवायोः बहिर्गमनं न्यूनीकृत्य व्यावसायिक-सङ्ग्रामात् पूर्वम् आसीनेषु अवस्था स्थापनीया इति एव पारिस् सन्धौ प्रख्यापितः। सन्धौ एव सदा घुवं स्थास्यते इति चैना अवोचत्।