OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 30, 2017

श्वः आरभ्य भारते एकीकृतकरः।
नवदिल्ली > अद्य अर्धरात्रौ भारतसंसद्मन्दिरस्य सभामण्डपः अन्यस्मै चरित्रमुहूर्ताय साक्षीभूयते। एकराष्ट्रम् एकशुल्कम् इत्यस्य लक्ष्यस्य समारम्भः क्रियते तत्र।
     श्व आरभ्य भारतम् एकीकृतपण्यसेवाकरपरियोजनायाः अधीने भविष्यति। अद्य रात्रौ एकादशवादनादारभ्य द्वादशवादनपर्यन्तं संसद्सभागारे आयोज्यमाने सविशेषसंसद्सम्मेलने अस्याः परियोजनायाः उद्घाटनं सम्पत्स्यते। उद्घाटनवेलायां राष्ट्रपतिः , प्रधानमन्त्री , उपराष्ट्रपतिः , वित्तमन्त्री च संसदीयान् अभिसम्बोधय़िष्यन्ति।  किन्तु कोण्ग्रस् नेतृत्वे विद्यमानानि विपक्षदलानि उद्घाटनसमारोहं बहिष्करिष्यन्तीति विज्ञापितम्।