OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 12, 2017

गगने यन्त्रं शिथिलं जातम्। विमानं सुरक्षितरूपेण अवतारितम्।
सिड्नी> यन्त्रभागे बृहद्वारस्य दर्शनेन डयितं विमानं सुरक्षितरूपेण अवतारितम्। सिड्नीतः चैनायाः षाङ्हायं प्रति गन्तव्यं चैना ईस्टेण् विमानं सुरक्षितरूपेण अवतारितम्। एयर्बस् ए ३३०-२०० ट्विन् जड् विमानं सोमवासरे अद्भुततया रक्षां प्रापत्। सर्वे यात्रिकाः सुरक्षिताः इति अधिकृतैः उक्तम्।
 विमानस्य उद्डयनानन्तरं दक्षिणयन्त्रभागे का अपि समस्या अस्तीति वैनानिकानां चिन्ता आगता। अनन्तरं विमानं अधः अवतारयितुं निर्णयं स्वीचकार। अवतरणानन्तरमेव भकरावस्था ते ज्ञातवन्तः। विमानस्य दक्षिणयन्त्रस्य बृहद्भागं पूर्णतया शिथलमासीत्। रोल्स् रोयिसेण निर्मितमस्ति विमानस्य यन्त्रम्। संभवमधिकृत्य परिशोधनां कुर्मः इति ते अवदन्।