OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, June 8, 2017

 खत्तर राष्ट्रस्य नयतन्त्रबन्धं विच्छेतुं भारतम् 
नवदेहली>खत्तर राष्ट्रस्य नयतन्त्रबन्धं विच्छिद्य अरब्राष्ट्राणां प्रवर्तने भारतस्य चिन्ता। बहरिन् ईजिप्त् सौदि अरेब्या यु एस् ई इत्यादि राष्ट्राणि खत्तर राष्ट्रस्य नयतन्त्रबन्धं विच्छेतितवन्तः। गतागतमपि तैः निरोधितम्। स्व राष्ट्रेषु वर्तमानान् खत्तरपौरान् देशात् गन्तुं द्विसप्ताह समयं प्रदत्तम्।
मुस्लिम् ब्रदरह् इत्यादि भीकरसंस्थाः खत्तर आर्थिकसाहाय्यं ददाति इत्यारोप्य अरब्राष्ट्रैः एषा प्रक्रिया स्वीकृता।
अशीतिलक्षं भारतीयानां कर्मक्षेत्रं भवति अरेब्या। खत्तरे तथा सर्वत्र अरब्राष्ट्रेषु भारतीयानां विशिष्य केरलीयानां सान्निध्यं बृहत्तरमस्ति। खत्तरराष्ट्रस्य अस्मिन् प्रतिसन्ध्यां तत्रत्य कर्मकराणां अन्यत्र गन्तुं आगन्तुं च न शक्यन्ते।
खत्तर राष्ट्रं प्रति भारतात् उत्पन्नानां विक्रयणं तथा ततः क्रयणं च प्रचलति। खत्तरेण सह भारतस्य तन्त्रप्रधानं सहवर्त्तित्वं वर्तते । ऊर्जरंगे प्रतिरोधरंगे च एतत् सहवर्त्तित्वं।अत्यधिकं प्रकृतिवातकं खत्तरराष्ट्रात् भारतं स्वीकरोति। खत्तरेण सह भारतं पञ्चविंशति वर्षाणां समयः निर्मितः। गतदिसंबर मासे आसीत् सः समयः। गत केषुचित् संवत्सरेषु खत्तरेण सह भारतस्य बन्धं दृढीकृतम्।अत एव राष्ट्रस्य अस्य एषा अवस्था भारतमपि बाधते इति आर्थिकविदग्धाः वदन्ति।
२०२२ तमस्य विश्वचषक (world cup) पादकन्दुक क्रीडार्थं खत्तर राष्ट्रे बहूनि निर्माणप्रवर्तनानि प्रचलन्ति। सहस्रशः भारतीयाः गत संवत्सरेषु खत्तरराष्ट्रे आगताः। राष्ट्रस्य अस्य चिन्ता एषा पादकन्दुकक्रीडायाः कार्यकरणमेव।
प्रतिसन्धिः एषा इदानीं राष्ट्रं न बाधते चेदपि भविष्ये अवस्था भिन्ना भवेत्। विनेदसञ्चारक्षेत्रे खत्तरस्य आयः न्यूनः भविष्यति।एवं सम्पन्नस्य अस्य राष्ट्रस्य अवस्था भिन्ना भविष्यति।