OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, June 14, 2017

गुप्तः भूत्वा न्याय. कर्णस्य सेवानिवृत्तिः।
कोल्कोत्ता> विवादेन विख्यातः न्यायाधीशः सि एस् कर्णः कोल्कोत्ता उच्चन्यायालयात् सोमवासरे सेवानिवृत्तः अभवत्। न्यायालयम् अनागत्य रहःस्थानं वर्तयित्वा विरमितः न्यायाधीशः इत्यपूर्वविशेषता अपि तेन प्राप्ता।
     कर्णस्य अभावात् औपचारिककार्यक्रमाः के पि नासन्निति उच्चन्यायालयस्य पञ्जिकाधिकारिणा सुगतो मजुंदारेण उक्तम्। तदाभ्यन्तरे, न्यायालयं प्रति अनादरहेतुना सर्वोच्चन्यायालयेन षण्मासीय कारागारवासविहितं कर्णं सङ्गृहीतुं वङ्गदेशारक्षसेनायाः परिश्रमः अनुवर्तते च। न्यायालयविधेरनन्तरं "विटपान्तरितविग्रहः" न्याय. कर्णः तमिलनाट् राज्ये वर्तते इत्यस्ति विश्वासः।