OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, June 7, 2017

मध्यप्रदेशे कृषक प्रक्षोभः - भुषुण्डिप्रयोगे पञ्च हताः। 
भोपाल् >मध्यप्रदेश राज्यस्य  मन्सोर् जनपदे कृषकान् प्रति आरक्षकैः कृतेन भुषुण्डिशस्त्रप्रयोगेण पञ्च हताः। अनावृष्टिबाधिते जनपदे कार्षिकोत्पन्नानां कृते अधिकमूल्यं याचमानैः कृषकैः कृतस्य आन्दोलस्य मध्ये  आसीदियं घटना। नैकाः आहताः।
     प्रक्षोभे भागं भजमानाः कृषकाः पिपालिया आरक्षकालयस्थानि वाहनानि अग्निसात्कृतानि , तेन कारणेनैव भुषुण्डिप्रयोगः कृत इति श्रूयते।