OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 2, 2017

बीहार राज्ये उच्चतरमाध्यमिकस्तरे  प्रतिशतं ६४ छात्राः पराजिताः। छात्राः प्रतिषेधं कुर्वन्ति।
पाट्ना> बीहार राज्ये उच्चतरमाध्यमिकस्तरे परीक्षालिखितेषु छात्रेषु प्रतिशतं चतुषष्ठि छात्राः पराजिताः। इण्डर कौण्सिल् कार्यालयस्य पुरतः मिलित्वा छात्राः प्रतिषेधं अकुर्वन्। आरक्षकाणां छात्राणां मध्ये संघर्षः जातः।
पाषाणखण्डैः कार्यालयं क्षिपतः छात्रान् दण्डेन आरक्षकाः अधावयन्। माधेपुरा एम् पी राजेष् रञ्जन् इति पप्पु यादवस्य अनुयायिनः शतशः युवजनप्रवर्तकाः संग्रामे भागभाजः अभवन्। षट् छात्राः आरकषकैः गृहीताः। बीहार शिक्षामन्त्रिणा अक्रमराहित्याय छात्राः निवेदिताः। छात्राः यस्मिन् विषये  पराजिताः तस्मिन्  झटित्येव पुनःपरीक्षां लिखित्वा विजयिनः भविष्यन्ति चेत् पराजितानां तेषां एकसंवत्सरं नष्टं नभविष्यतीति मन्त्रिणा उक्तम्। परीक्षा संपूर्णतया सुतार्यतया प्रचलति। उन्नतविजयं प्राप्तान् कुशलान् उपरिपठनाय प्रेषयति इति सः अयोजयत्।