OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 27, 2017

काश्मीरे भीकराणां रक्षिपुरुषशिबिराक्रमणं - अष्टानां सैनिकानां वीरमृत्युः। 
श्रीनगरं > जम्मुकाश्मीरस्य पुल्वामा प्रविश्यायां जनपदीयारक्षकशिबिरं प्रति भीकरैः कृते आक्रमणे अष्ट सुरक्षासैनिकाः हताः। सप्त सैनिकाः व्रणिताः।
     ह्यः प्रभाते आयुधधारिणः त्रयः भीकराः सि आर् पि एफ् सैनिकानाम् आवासं प्रविश्य ग्रनेड् विक्षेपणेन भुषुण्डिप्रयोगेण च आक्रमणमारब्धवन्तः। एतस्मिन् समये सैन्यस्य सुरक्षाबलस्य च साहाय्येन आरक्षकाणां परिवाराः सुरक्षितस्थानं नीताः। ततः १२ होराः यावदनुवर्तमानस्य प्रत्याक्रमणस्यान्ते त्रयः भीकरा अपि मारिताः।
      भारतीयसैनिकस्थानं प्रति पाकिस्थानेन कृतम् आक्रमणमनुगम्य एव पुल्वामायाम् आक्रमणं संवृत्तम्। एतदाक्रमणम् आत्मघात्याक्रमणं भवतीति १५तम संघस्य कमान्डर् लफ्ट.जन. जे एस् सन्ध्या न्यगादीत्।