OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 23, 2017

त्रितलाखं निरुध्यमानं विंशतितमं राष्ट्रं भारतम्। 
कोच्ची > निरस्यमानं वाक्यं युगपत् त्रिवारमुक्त्वा पत्नीम् उपेक्ष्यमाणः "मुत्तलाख्" [तलाखत्रयं] इति इस्लामधर्मसम्प्रदायः संवत्सरेभ्यः पूर्वमेव विश्वे प्रमुखेषु इस्लामराष्ट्रेषु अपि निरुद्धः अस्ति। तादृशं विंशतितमं राष्ट्रं भवति भारतम्।
    १९२६तमे वर्षे सैप्रस् राष्ट्रेणैव प्रथमतया तलाखत्रयं निरुद्धम्। तस्मिन् वर्षे एव तुर्की, १९५३तमे सिरिया, इराखः (१९५९), पाकिस्थानः (१९६१), इरान् (१९६७), बङ्लादेशः (१९७१), यू ए ई (२००५), खत्तर् (२००६) इत्यादिभिः प्रमुखैः मुस्लिम राष्ट्रैश्च एकपक्षीयः एतत्सम्प्रदायः निरुद्धः। एषः अंशः भूरिपक्षविधिप्रस्तावे प्रस्तौतः अस्ति।