OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 2, 2017


हट्टतालः - क्रियाविधिम् अभियाच्यमानः मानवाधिकारपालनाधिकारी। 
अनन्तपुरी > पूर्वसूचनां विना प्रचाल्यमानाः हट्टतालनामकाः कार्यस्थगितप्रतिषेधाः तीक्ष्णशासनैः निरुद्धव्याः इति केरलस्य मानवाधिकारपालाधिकारिणा उक्तम्। एतदधिकृत्य साध्याः क्रियाविधयः राज्यस्य मुख्यकार्यदर्शी, गृहकार्यदर्शी, आरक्षकनिदेशकः इत्येतैः सप्ताहत्रयाभ्यन्तरे विलिख्य समर्पणीयाः इति पालकाध्यक्षः पि मोहनदासः उक्तवान्। गतदिने केरले प्रचालिते अप्रतीक्षिते हट्टताले सामान्यजनाः बहुक्लेशम् अनुभूतवन्तः। चिकित्सालयेषु प्रवेशिताः रोगिणः बान्धवाश्च भोजनमलभमानः पीडिताः। हट्टतालस्य नाम्नि जनविरुद्धाः पदक्षेपाः न भवितव्याः इति च तेनोक्तम्।