OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 27, 2017

सेवाविषये अवगणना - संस्कृताध्यापकानां प्रतिषेधः सम्पन्नः। 
कोच्ची > केरले संस्कृताध्यापकाः सेवाविषये अधिकारिभ्यः अनुभूयमानाम् अवगणनां विरुध्य प्रतिषिध्यन्ते स्म। केरल संस्कृताध्यापक फेडरेषन् संघटनस्य नेतृत्वे केरले सर्वत्र शैक्षिकोपनिदेशककार्यालयकवाटेषु स्वकीयां प्रतिषेधोक्तिं प्रकटयामासुः। बहुषु जनपदेषु  पथसञ्चलनेन सह एव उपवेशनान्दोलनं कृतवन्तः।
कोट्टयं जनपदे संघटनस्य राज्य-  सचिवप्रमुखः पि जि अजित्प्रसादः धर्णासमरस्य उद्घाटनं कृतवान्। पालक्काट् जनपदे राज्याध्यक्षः पि पद्मनाभः उद्घाटनमकरोत्।
   एरणाकुलं जनपदे पथसञ्चलनानन्तरं अय्यम्पुष़ा हरिकुमारस्य अध्यक्षत्वे सम्पन्नः धर्णासमरः राज्यसमित्ङ्गेन पि रति महाभागया उद्घाटितः। कण्णूर् जिल्लायां जिल्लापञ्चायत्त् विकसनकार्यसमित्यक्षः वि के सुरेष् बाबुः उद्घाटनं कृतवान्।
   एल् पि तले पदनिर्णयं कुरुत, पार्ट्-टैम् अध्यापकानां कृते प्रोविडन्फण्ट् आनुकूल्यं अङ्गीक्रियत, संस्कृतोत्सवे एल् पि - उच्चतरछात्रानपि अन्तर्भावयत इत्यादीन् चतुर्दशविषयान् पुरस्कृत्य आसीत् संस्कृताध्यापकानां प्रतिषेधसमरः।