OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 6, 2017

ज्ज्वलविजयः। उपनायकत्‍वेन वेङ्‌कय्यनायिडुः निर्वाचितः।
नव दिल्ली > भारतस्य पञ्चदशत्तमे उपराष्ट्रपतिपदे वेङ्‌कय्यनायिडुः निर्वाचितः। षोडशाधिकपञ्चशतम् (५१६) सामाजिकानां मतदानानि लब्ध्वा एव स विजेता अभवत्। विपक्षदलस्य स्थानाशिने गोपालकृष्णगान्धिने चतुश्चत्वारिंशदधिकद्विशतम् (२४४) मतदानानि अलभन्त। षोडशानां मतदानानि व्यर्थमभवन्।  राष्ट्रपति निर्वाचने एकविंशति मतदानानि व्यर्थानि अभवन्। विपक्षदलात् अपि अनुकूलमतदानानि लब्ध्वा एव वेङ्‌कय्यमहोदयस्य उज्ज्वलः विजयः इति विशेषता। आन्ध्राप्रदेशस्थे नेल्लूर् प्रान्ते विद्यमानः चावट्टपालं नाम ग्रामः भवति अस्य जन्मदेशः। अस्य पिता रङ्कय्या रमणम्मा च। कृषक-परिवारतः एव नायिडु महोदयस्य उन्नतस्थानप्राप्तिः। दक्षिणात्येषु भा ज पा सामाजिकेषु जनानाम् अतिप्रियंकरः अयम् इति  परिगण्यते।