OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 23, 2017

मुत्तलाख् निरुद्धम् - शासनसंविधानस्य विरुद्धः इति सर्वोच्चन्यायालयः।
नव दिल्ली> मुत्तलाख् नाम माहम्मदीयानाम् दुराचारस्य निरोधनम् भारतस्य सर्वेच्चन्यायालयेन कृतम्। सर्वोच्चन्यायालयस्य शासनसंविधानस्य पञ्चाङ्गोत्पीठिकायाः न्यायाधिपाः स्वाभिमतानां चर्चां कृत्वा पञ्चसु त्रयाणां अभिमतानुसारेण आसीत् विधिप्रस्तावः। न्यायाधीशाः कुर्यन् जोसफः, यू यू ललित्, एफ् नरिमानः, अब्दुल्न सीर् मुख्य न्यायाधीशः केहारः  च पीठिकायां आसन्I दिनषष्ठस्य निरन्तर-न्यायविस्तरानन्तरमेव विधिप्रस्तावं कृतवन्तः।

           माहम्मदीय-स्त्रीणां आधारभूतव्यक्तिगताधिकाराः लिङ्गसमत्वं तासाम् आत्मगौरवं इत्येतान् उल्लंघ्य तिष्ठिति वा 'मुत्तलाख्' इति विचिन्त्य आसीत् शासन-संविधानपीठस्य निर्णयः।
पञ्चदशवर्षस्य वैवाहिकबन्धः  दूरवाणिद्वारा मुत्तलाख् उक्त्वा परित्यक्तः। पत्रद्वारा, त्वरितपत्रद्वारा च मुत्तलाख् कृताः। एवं स्त्रीत्वस्य परिगणना अस्मिन् आचरणे नास्ति इति उच्चन्यायालयेन निर्णीतम्।