OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 6, 2017

तालपत्ररचनां पुनर्निर्मीय चिट्टूर् ससेण्ट् मेरीस् विद्यालयस्य विद्यार्थिनः।
गोश्रीपूरम् (कोच्ची)> वर्णाः सङ्गणकस्य टङ्कणफलके आगते अस्मिन् काले तालपत्ररचनां पुनर्निर्मीय केचन विद्यार्थिनः।  पुरा भारतसंस्कृतिः तथा वेदोपनिषदादयः सर्वे तालपत्रेषु निबद्धाः आसन्।  तस्याः संस्कृत्याः स्मरणार्थं विद्यार्थिनामयं प्रयत्नः। चिट्टूर् सेण्ट् मेरीस् विद्यालयस्य संस्कृताध्यापकस्य अभिलाष् टी प्रतापस्य नेतृत्वे विद्यार्थिनः पुरातनवैज्ञानिकरीत्या एव तालपत्राणां निर्माणं अकुर्वन्। तालवृक्षात् पत्राणि स्वीकृत्य औषधजले स्थापयित्वा संस्कृत्य तालपत्राणि निर्मीयन्ते। पुरातनानां तालपत्राणां मापने एव आसीत् निर्माणम्। तेषु श्लोकाः, प्रहेलिकाः, गणितसूत्रवाक्यानि, विद्यालयचरितम् इत्यादयाः लोहसूचिना आलेखिताः। श्रावणपौर्णमि आशंसा: आलेखिताः तालपत्राणि विविधक्षेत्रेषु विशेषज्ञानाम् कृते प्रेषितानि। संस्कृतदिने सोमवासरे एतेषां तालपत्राणां तथा पुरातनानां वस्तूनां च प्रदर्शनं विद्यालये भविष्यतः।